________________
काव्यमाला।
न्मूर्ध्नि मम मस्तके पादं चरणं धत्ते। कुत्रापि जनपदे यदा कस्यचित्तिरस्काररूपनिकृष्टवचनं प्रोच्यते तदा अरे उलूक इति कथ्यते। तच्च लाभपुरसत्कपंझालमेवातमण्डलादावधुना प्रसिद्धं वर्तते । तस्मात्स निन्द्यः इत्याद्यति निवारय ॥ युग्मम् ॥
विमलाभिषधीसखः पुरो ददृशे तेन हयं विभूषयन् ।
किमु सार्थनिनंसया शतक्रतुरुच्चैःश्रवसं समीयिवान् ॥ ९६ ॥ तेन मुनीन्द्रेण विमल इत्यभिधा नाम यस्य तादृशो धीर्बुद्धिरेव सखा सहायो मित्रं वा यस्य सः धीसखश्चतुर्बुद्धि निधानः प्रधानः ददृशे दृग्गोचरीकृतः । किं कुर्वन् । हयं श्वेताश्मतुरङ्गमं विभूषयन् आरोहणेन शोभां लम्भयन् । उत्प्रेक्ष्यते-उच्चैःश्रवोनामानं निजवाजिनमारुह्य सार्थस्यार्बुदाचलाधिष्ठायिवृषभध्वजजिनस्य निनंसया नन्तुमिच्छया समीयिवानागतः शतक्रतुरिन्द्र इव ॥
प्रभुतोपगतः प्रभुभक्तिभरैः स्पृहयन्निव सिद्धिपदाय पुनः। विमल: सचिवोऽञ्जलिशालिशयद्वितयः स्थितवान्भगवत्पुरतः ॥ ९७॥
अअलिना ललाटपट्टे मुकुलीकरणेन योजनेन वा शालि शोभनशीलं शयद्वितयं पाणियुगलं यस्य तादृशो विमलनामा सचिवः प्रधानः भगवत्पुरतः युगादिजिनपते: पुरस्तादने संमुखः स्थितवान् तिष्ठति स्म । उत्प्रेक्ष्यते-प्रभोर्भगवतो भक्तीनां प्राग्जन्मजनितसेवासक्तीनां भरैरतिशयैः प्रभुतां रोमदेशाधीशद्वादशपतिसाहिप्रमुखानेकराजकपराजयनपूर्वकं भूलोकाधिपत्यमुपगतः संप्राप्तोऽपि पुनः सिद्धिपदाय अष्टमहासिद्धिप्रधानस्थानाय मोक्षनगराय वा स्पृहयन् कामयमान इव वाञ्छन्निव । 'स्पृहेरीसितः । स्पृहेरिष्टः संप्रदानसंज्ञः स्यात् । हरये स्पृहयति । वेति केचित् । गोपी हरि स्पृहयति । ईप्सित इति किम् । पुष्पेभ्यो वनं स्पृहयति' इति प्रक्रियाकौमुद्याम् ॥ हरिन्मणीनिर्मितसंनिधिद्वया सिताश्मसोपानततिळलोक्यत। . उपान्तविस्मेरवनीव जाह्नवी जिनं भजन्ती विजिता समज्ञया ॥९॥ हरिन्मणीभिर्मरकतरत्नैर्निर्मितं रचितं संनिधिद्वयं पार्श्वयोर्द्वयं यस्यास्तादृशी सिताश्मनां स्फाटिकोपलानां सोपानततिरारोहणश्रेणी तेन गुरुणा व्यलोक्यत ददृशे । उत्प्रेक्ष्यते-समज्ञया स्वकीा येन विजिता पराभूता सती जिनं मारुदेवं भगवन्तं भजन्ती सेवमाना जाहवी गङ्गेव । किंभूता जाह्नवी । उपान्तयोर्द्वयोः समीपपार्श्वयोः विस्मेरा विनिद्रा वनी काननं यस्याः। 'खवनीसंप्रवदत्पिकापि का' इति नैषधे ॥
व्रतीश्वरेणैक्ष्यत तोरणावली जिनालयद्वारि शुभस्य शंसिनी । जिनाधिभर्तुः किमु मुक्तिकन्यया कृतेयमुद्वाहविधौ विरञ्चिनाः॥९९॥
व्रतीश्वरेण वाचंयमविभुना सूरिणा जिनालयस्य विमलवसतेारि द्वारदेशे तोरणावली वन्दनमालिकामाला ऐक्ष्यत निरीक्षिता। किंभूता। शुभस्य शंसिनी प्रेक्षकाणां कल्याण,