________________
१२ सर्गः ]
हीरसौभाग्यम् ।
६४९
यासामू । पुनः किंभूताः । कुन्दानां मुचकुन्दकुसुमानां मालाः खजो हाराः कुन्दद्रुमाणां श्रेणयो यासां यासु वा । पुनः किंभूताः । पिकीनां कलकण्ठीनां व्याहृतं पञ्चमालापमधुरध्वनिरिवालपितं यासां कोकिलाकलरवो यासु ॥
कञ्चुकिप्राञ्चिताः शेषगेहा इवारामदेशा इवोत्फुल्लपुष्पाङ्किताः । किमाला इवालंकृताश्चन्द्रकैः पूर्णचन्द्रानंनाः पूर्णिमासीरिव ||३९|| पुनः किंभूताः । कञ्चुकिभिः सौविदलैः प्रकर्षेणाञ्चिताः सहिताः । ' सौविदल्ला: ककिन:' इति हैम्याम् । तथा 'काश्चिनराजर्जरशबर कबुकि कर । वलम्बलीलागामिन्यः' इति चम्पूकथायाम् | शबराधिराजशबरीणामपि कचुकिसत्तास्ते । शेषगेहा इव । यथा ना गाधिराजनिकेताः कञ्चुकिभिर्भुजंगमैः संयुता भवन्ति । शेषनागस्य नागाधिपत्वात् । - पुनः किंभूताः । उत्फुल्लैरुन्मिषितैः पुष्पैः कुसुमैरङ्किताः कुसुमावतंसहारादियुक्ताः । के इव । आरामदेशा इव । यथा वनप्रदेशाः प्रबुद्धप्रसून परिचिता भवन्ति । पुनः किंभूताः । चन्द्रकैः ललाटपट्टे वृत्ताकारतिलकैर्लोके 'चांदलो' इति नाम्ना प्रसिद्धैः अलंकृता भूषिताः । का इव । केकिमाला इव । यथा मयूरराजी चन्द्रकैः कलापैः कलिता भवन्ति । 'पिच्छं बढ़े शिखण्डकम् । प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥' इति हैम्याम् । पुनः किंभूताः । पूर्णः पार्वणः षोडशकलाकलितः चन्द्रः कौमुदीपतिरिवाननं वदनं यासाम् । का इव । पूर्णिमासीरिव । पूर्णे निशाकरे सर्वकलाकलिते चन्द्रमसि सति सा पूर्णिमा सकेत्युच्यते । यथा हैम्याम् - 'सा राका पूर्णे निशाकरे' इति । किंभूता राकाः । पूर्णचन्द्र एवाबनं मुखं यासाम् ॥ मञ्जुसिञ्जानमञ्जरविस्फूर्जितैः स्पर्धमाना ध्वनद्भिर्मरालैरिव ।
I
के। लेवातायुपोतान्क्वचित्कुर्वतीगतिभियगिवद्ध्यानलीनानिव ॥ ४० ॥ पुनरुत्प्रेक्ष्यते - मनि मनोहराणि सिञ्जानानि रणज्झणिति शब्दायमानानि मञ्जीराणि नूपुराणि तेषां विस्फूर्जितैर्विलसितैः कृत्वा ध्वनद्भिर्मृदुमद कलरौप्यघन घर्घरी करुचिरखरं विरचयद्भिर्मरालैः राजहंसैः सार्धं स्पर्धमाना इव स्पर्धा कुर्वाणा इव । क्वचि - कुत्रापि स्थाने केलये क्रीडाकृते समानीय रक्षितान् वातायुपोतान् सारङ्गशा वान् गीतिभिर्माकन्दमञ्जरीपुआखादनोद्धटिनी कुष्ककुह र प्रेङ्खोलनास्खलित परभृतप्रपञ्चितपञ्चमरागविरागीकरणप्रवणस्खपाणिवीणाक्वणनानुगुणप्रगुणितामितस्फीतगीतैः कृत्वा काश्चन योगिवद्योगीन्द्रानिव ध्याने प्रणिध्याने मधुरगानाकर्णने च लीनानिश्चलाङ्गान् कुर्वतीः ॥
स्वीयरूपश्रिया मानमातन्वतीः प्रेक्ष्यमाणा मुहुः स्मेरदम्भोरुहम् । भूषयाहं विशिष्ये किमेतद्गृहा श्रीरुतेतीव चित्ते विजिज्ञासया ॥ ४१ ॥ पुनः काश्चिकि कुर्वाणाः । मुहुर्वारंवारं स्मेरदम्भोरुहं विनिद्रत्कमलं प्रेक्ष्यमाणाः पश्यन्तीः । उत्प्रेक्ष्यते—चित्ते खमानसे इयमुना प्रकारेण विजिज्ञासया विशेषप्रकारे