________________
५४८
काव्यमाला।
किंभूताः । गण्डशैलयोर्गण्डस्थलयोरुल्लसन्त्यी विचित्रतया स्फुरन्त्यो याः पत्रवलयः पत्रलतास्सा बिभ्रतीः । पक्षे गण्डशैलाः पर्वतात्परितः स्थूलाः उपला महत्पाषाणास्तेषु उल्लसन्त्यो विकसन्त्यः पत्रैः पर्णैरुपलक्षिता उपचिता वा वल्लयो वीरुधस्ता बिभ्रतीः । 'देव भवद्वौरवधूवदने च भान्ति नारङ्गतरूपशोभे गण्डशैलस्थलालंकारिण्यो रोधलताः' इति चम्पूकथायाम् गण्डयोः शलोपमानम् । अथ वा गण्डशैलौ कपोलप्रदेशावित्यर्थः ॥
भृङ्गनेत्रा मृणालीभुजा जम्भिताम्भोजवक्रास्तरङ्गोल्लसत्कुन्तलाः । बन्धुरावर्तनाभी रथाङ्गस्तनी हंसयाना यमीवारिदेवीरिव ॥ ३७॥ .. पुनरुत्प्रेक्ष्यते-यमी वारिदेवीर्यमुनाजलदेवता इव । किंलक्षणाः । मकरन्दपानलुभ्य. दम्भोरुहाभ्यर्णपरिभ्राम्यन्तो भृङ्गा अतिश्यामत्वाच्चञ्चलत्वाच्च भ्रमरा इव भृङ्गारवा इव नेत्राणि नयनानि यासाम् । पुनः किंभूताः । मृणाल्यः कमलनालानि । नालमृणाल. शब्दौ त्रिष्वपि लिङ्गेषु । यथा-'कुवलयमृणालमण्डलानालमृणालपटलाः' इति लिङ्गानुशासने । ता इव । मृणाला एव वा भुजा बाहवो यासाम् । भुजाशब्दः पुंस्त्रीलिङ्गयोः । पुनः किंभूताः । जृम्भितानि विकाशं प्राप्तानि अम्भोजानि जलजानि तद्वत्तान्यव बकाणि वदनानि यासाम् । पुनः किंभूताः । तरङ्गाः पवनप्रसरलुलत्कलोला इव । तरङ्गा एव वा उल्लसन्तो विविधविच्छित्या स्फुरन्तः कुन्तलाः केशपाशा यासाम् । पुनः किंभूताः । बन्धुरा मनोज्ञा आवर्ता दक्षिणपार्श्वभ्रमणान्याकारविशेषा यासु तादृश्यः । पयोश्रमाः हृदादिषु सलिलमागत्य पश्चाद्वलित्वा भ्रान्त्वा च पुरः प्रचलति 'गवर' इति समुद्रावगाहिलोकेषु प्रसिद्धा जलावर्तास्तद्वत्त एव वा । नाभ्यस्तुन्दकूपिका यासाम् । पुनः किंभूताः । रथाङ्गाश्चक्रवाकास्तद्वत्त एव वा स्तनाः कुचा यासाम् । पुनः किंभूताः। हंसानां यानं लीलागमनं तद्वन्मनोशं गमनं यासु । तथा हंसानां यानं जलक्रीडाकृते कमलनालबीजकोशबीमाखादनार्थ गमनागमनं यासु ॥
विष्टरोल्लासिनीश्चन्दनामोदिनीः पल्लवोल्लासिजिह्वाः प्रसूनस्मिताः । बिम्बदन्तच्छदाः कुन्दमालाः पिकीव्याहृता मूर्तिमत्कुञ्जदेवीरिव॥३८॥ पुनरुत्प्रेक्ष्यते—मूर्तिमती: मूर्ता अङ्गीकृताङ्गोपाङ्गाः कुजलक्ष्मीर्वनश्रिय इव । किंभूताः । विष्टरेषु पीठेषु अथ वा विष्टरैरासनैर्विविधासनोपवेशैरुत्प्राबल्येन लासन्ते इत्येवंशीलाः । 'विष्टरः पीठमासनम्' इति हैम्याम् । पक्षे विष्टरैरनेकजातितरुभिः शोभनशीलाः । 'विटपी.कुट: क्षितिरुहः कारस्करो विष्टरः' इत्यपि हैम्याम् । पुनः किंभूताः । चन्दनाः श्रीखण्डा इव पद्मिनीत्वेन विलेपनभूतैर्वा मलयद्रुमैश्व आमोदः शरीरसौगन्ध्यं परिमलश्च विद्यते यासां यासु वा । पल्लवाः किसलयानि तद्वत्प्रवाला एव जिह्वा अरुणास्त्रकुमारा रसना यासाम् । पुनः किंभुताः । प्रसूनानि विकचकुसुमानि उज्ज्वलत्वात्तद्वत्तान्येव वा स्मितं महितं यासाम् । पुनः किंभूताः । बिम्बानि बिम्बीफ. लानि बिल्वीफलानि पक्कगोल्हकानि तद्वत्तान्येव वा दन्तच्छदा दशनपत्राणि अधरा