SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] हीरसौभाग्यम् । ५४. निषादाधिपोऽर्जुन: पुलिन्दराजोऽभ्येय गुरोः संमुखमागत्य नत्या पादारविन्दप्रणमनेन कृत्वा निजमात्मानं पावयन् पवित्रीकुर्वन् सन् सूरि हीरगुरुं खान् गृहान् आत्मायानि मन्दिराणि प्रत्यनेषीत् प्रापयामास । निनायेत्यर्थः । काभिः । भक्तिभिः । किंलक्षणाभिः । वार्धिष्णुभिः प्रवर्धनशीलाभिः । उत्प्रेक्ष्यते-यस्य सूरे खंवदनं तस्यालोकनेन दर्शनेन कृत्वा प्रकर्षेण उल्लसन् सर्वप्रकारेण वर्धमानो यः संमदः परमानन्दसंदोहस्तेन सार्ध स्पर्धयेव संघर्षेणेव ॥ इत्यर्जुनपल्लीपतिगृहागमनम् ॥ अथ चतुर्दशभिर्वृत्तैः किराताङ्गनां विशिनष्टि । चम्पूकथादौ तथाविधशबरदशावर्णनदर्शनात् । संबन्धस्तु चतुर्दशवृत्ते वक्ष्यते फिरातवशा खकान्ता अजहवादेति.मेरपझेक्षणा भृङ्गगुञ्जारवा हंसकोद्भासिनी सुस्मितश्रीभृतः । कर्णिकामादधाना रसोल्लासिनीः पद्मिनीलभासस्तथामोदिनीः ॥३५॥ किंभूताः भिल्लीः । उत्प्रेक्ष्यते-पद्मिनीरिव । पद्मिनीः स्त्रीः कमलिनीश्च । किंभूताः । स्मेराणि प्रबुद्धानि पद्मानि कमलानि तद्वत्तान्येव वा ईक्षणानि नयनानि यासाम् । पुनः किंभूताः। भृङ्गानां भ्रमराणां गुञ्जा इव रखो ध्वनिर्वासाम् । वाण्या भृङ्गीपिकीरवी' इति काव्यकल्पलतोक्त त्वात् । पक्षे मधुकराणां गुञ्जारवो यासु । पुनः किंभूताः । हंसकैनपुरैः पक्षे हंसा एव हंसकाः । स्वार्थे कः । तैमरालैरुद्भासन्ते प्राबल्येन शोभन्ते इत्येवंशीलाः । पुनः किंभूताः । सुशोभनां स्मितस्य ईषद्ध सिता सदा हसितवदनत्वस्य वा तरुणार्ककिरणसंपर्कवंशविकसिततालक्ष्मी च बिनतीर्दधतीः । पुनः किंभूताः । कर्णिकां कर्णभूषणं बीजकोशं च दधानाः । पुन: किंभूताः । नीला मरकतमणिसदृशा भासो दीप्तयो यासाम् । पक्षे नीलाः । पुनः किंभूताः । रसैः शृङ्गारादिभिविविधक्रीडारसैर्वा पक्षे मकरन्दैरुल्लसन्तीत्येवंशीलाः । रग: सलिलैमहासन्ति उद्भवन्तीत्येवंशीला वा, वारिजत्वात् । पुनः किंभूताः । आमोदः आनन्दः परिमलश्च अस्ति आसामासु वा ॥ मेखलामालिनीः शालिपादाः स्फुरद्दन्तिका दन्तियानास्तमालत्विषः । गण्डशैलोल्लसत्पत्रवल्लीभृतो विन्ध्यशैलाञ्जनोर्वीधरोवीरिव ॥ ३६ ॥ पुनरुत्प्रेक्ष्यते--विन्ध्यशैलो विन्ध्यानिस्तथा अञ्जनोर्वीधरः अवनशैलः तयोरुर्वी - मीरिव । किंभूताः । मेखला सुवर्णमणीकाधीमद्रिमध्यभागं च मलन्ते धारयन्तीत्येवं. शीलाः । पुनः किंभूताः । शालिन्यः शोभनशीलाः पादा भूषणाललकरङ्गकलिताश्चरणाः पर्यन्तपर्वता यासाम् । पुनः किंभूताः । स्फुरन्तो दीप्यमाना ह यमानाश्च दन्ता एव दन्तका दशना पर्वता बहिस्तियडिर्गता गिरिप्रदेशाश्च यासां यासु वा । पुनः किं. भूताः । दन्तिनां मत्तमतङ्गानां यानमिव चानं गमनं यासाम् । मध्यमपदलोपी समासः । पक्षे मनभानां यानं खैरगतिरत्र । पुनः किं ताः । तमालास्तापिच्छद्रुमविशेषाः । यदुक्तं नैषधे-'श्रवणपुरतमालदलाङ्कुरं शाशकुरङ्गमुखे सखि निक्षिप' इति । तद्वत् दयामा स्वतः शरीरकान्तयो यासाम् । पक्षे । तमालमालाभिः कृष्णकान्तयः । पुनः
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy