________________
५१६
काव्यमाला।
पुलिन्द्राणां पळी पुरी शिरोत्तराभिधानप्रामविशेषः इखग्रामो वा व्यालुलोके दृग्गोचरीचके। उत्प्रेक्ष्यते-महीमण्डलं पृथिवीपीठं प्रत्यागता । सप्तमी वा महीमण्डले समेता नागपू. भोंगावतीनानी भोगिनगरीव । किं कृत्वा । भीरुभावात् । विमेतीत्येवंशीला भीरुस्तस्या भावस्तस्मात् । अथ वा स्त्रीखभावात् । 'योषिद्विशेषास्तु कान्ता भीरुर्नितम्बिनी' इति हैम्याम् । भीतिसौलभ्याच्च । व्यालानां विषधराणां मालाभिः श्रेणीभिराकुलं निर्भरभृतमत एव भीष्मं भयानकं मनस्यत्यन्तभयोत्पादकं निजमात्मीयमाश्रयं निवासस्थानमौज्झ्य त्यक्त्वा । 'वसीत निर्भये स्थाने' इति वचनात् द्विजिह्वभरभृतं भोगिभवनं मुक्त्वा क्षितौ समायाता नागनगरीव ॥
क्वापि शक्तिं वहद्भिः कुमारैरिवाम्भोजनाभैरिवोद्यद्गदाधारिभिः । . याभिरूपैरिवाभाति कादम्बरी सादरीभूतचित्तैः किरातैता ॥ ३२ ॥
या भिल्लपल्ली आभाति । किंभूता । बलवतामपि वहद्भिः किरातैभृता । तथा कुत्रचित्स्थाने अम्भोजनाभैः कृष्णैरिव उद्यन्ती दीप्यमानां गदां सप्तधातुमयायुधविशेष . धरन्तीत्येवशीला गदाधारिणस्तादृशैः धारयन्ती शबाप्ता । क्वचन पानभूमौ कादम्बो मदिरापाने सादरीभूतं तत्परं संजातं चित्तं मनो येषाम् । कैरिव । अभिरूपैरिव । यथा कोविदैः कादम्बरीनामा वाणकविकृतग्रन्थविशेषस्तस्मिन्नादरेण अध्यायनाध्यापनासक्तमानसैर्जायते तादृशैः सुरापायिभिर्भिलभृता ॥
तत्र वित्रासयन्नर्जुनः शात्रवानस्ति पल्लीपतिः कङ्कपक्षाश्रितः । जिष्णुभावं सुभद्रानुषङ्गं पुनर्बिभ्रदद्वैतधानुष्कतां पार्थवत् ॥ ३३ ॥ तत्र शिरोत्तरानामपल्ल्यामर्जुनो नाम पल्लीपतिः अस्ति विद्यते । किंवत् । पार्थवन्मध्यमपाण्डव इव फाल्गुन इव । किं कुर्वन् । शात्रवान् विपक्षान् विशेषेण जीवं नाशं त्रासयन्विनाशयन् । पुनः किंभूतः । कङ्कानां जीवविशेषाणां पक्षाः पिच्छानि येषु । 'पत्रं पतत्रं पिच्छं वाजस्तनूरुहम् । पक्षो गरुंच्छदश्चापि' इति हैम्याम् । तन्नामन्येव कङ्कपत्राणि वाणास्तैराश्रितः । उभयपार्श्वबद्धतूणीरः । अर्जुनोऽप्येतादृक् । पुनर्विशेषः कङ्कस्य युधिष्ठिरस्य पक्षं सहायताम् अथ वा ककेन पक्षं सखिता अद्वैतप्रीतित्वात् श्रितः । 'पक्षो मासार्धे ग्रहसाध्ययोः । चुल्हीरन्ध्रे बिले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥' इत्यनेकार्थः । तथा 'अजातशत्रुः शल्यारिधर्मपुत्रो युधिष्ठिरः । कङ्कोऽजमीढः' इति हैम्याम् । पुनः किं कुर्वन् । जिष्णुभावं जयनशीलतामर्जुनाभिधानं च । तथा सु शोभनानि भद्राणि मङ्गलानि तैः सुभद्रानान्या खपत्न्या च अनुषङ्गः सङ्गस्तं बिभ्रद्धारयत् । पुनरद्वैतामसाधारणी धानुष्कतां धनुर्धरतां च विश्रद्दधानः ॥
स्पर्धया यन्मुखालोकनप्रोल्लसत्संमदेनेव वर्धिष्णुभिर्भक्तिभिः । सूरिमभ्येत्य नत्या निजं पावयन्नात्मगेहाननैषीन्निषादाधिपः ॥ ३४ ॥