________________
. १२ सर्गः]
हारसौभाग्यम् ।
१४५
समागत्य गुरोः खपर्माचार्यस्य पादुकां पदद्वयीस्थापनाप्रतिबिम्बं स सूरिः प्राणमनमस्करोति ल । किंभूतस्य गुरोः ! भावडस्य भावडनानो व्यवहारिण आत्मभूनन्दनः स एव सूरिशीतयुतिः एतावता श्रीविजयदानसूरीन्दुस्तस्य । कामिव । अर्चामिव । यथा भव्यश्चैत्यं श्रीजिनप्रासादमभ्वेल श्रीमतीर्थकृतसातिमां प्रणमति ।। ब्रह्मपुत्री स्मितानेकपाङ्किता यत्पुरश्रीमणीमेखलेवाजनि । सृरिकण्ठीरवोऽकुण्टलोकोत्सवैः सिद्धपूर्व पुरं पावनं तद्यधात् ॥२८॥ मूरिकग्ठीरवः आचार्यपत्राननः अकुठेबहलैलोकानामुत्सवैमहामहैस्तत्प्रसिद्ध सिद्धपूर्व पुरम् । निद्धपुरमित्यर्थः । पावनं पवित्रं व्यधाच्चकार । सिद्धपुरे जगामेत्यर्थः । मितैविकसितरनेकैरनत्यैर्विविधप्रकारैः पद्मः कमलेरङ्किता ब्रह्मपुत्री सरखती नाम्ना नदी यत्पुरश्रिया सिद्पुरलक्ष्म्या मणीनां रत्नखचितमेखलेव काञ्चीव अजनि संजाता ॥
श्रीमदाचार्यपादा उषित्वा कियद्वासकांस्तातपादैः समं वर्त्मनि । ते न्यवर्तन्त तेभ्यस्तदादेशतः सैकतेभ्यः पयोधेरिवाम्भःप्लवाः ॥२९॥ श्रीमदाचार्यपादाः श्रीमन्तो विजयसेनपूरयः तातपादैः श्रीहरिविजयसूरीश्वरैः समं वर्मनि मागे कियवासकान् कतिचित्संख्याकान् निवासान् । वासकशब्देन रात्रय एवोच्यन्ते । तत्र दिवसास्तु स्वयमेव समेताः । उपिन्वा स्थित्वा तेभ्यः श्रीभट्टारकेभ्यः तदादेशतः तदाज्ञया तदनुशिष्टया न्यवर्तन्त पश्चाद्यवलिरे । के इव । अम्भाप्लवा इव। यथा सकतेभ्यस्तटेभ्यः सकाशात्ययोधे: समुद्रख अम्भःप्रवाः पयःपूरा निवर्तन्ते पश्चाद्वलन्ते ॥
एष निघ्नंस्तमो विश्वमुद्बोधयन्कैश्चिदुद्यन्महोभिर्मुनीन्द्रः समम् । : तत्पुरात्प्रस्थिति तेनिवान्पद्धतौ सार्वभौमो ग्रहाणामिवाभ्रे ग्रहैः ॥३०॥
एष होरसूरिमुनीन्दैर्वाचकपण्डिताखण्डलैः समं तत्पुरासिद्धपुराभिधनगरात्पद्धतौ मार्गे प्रस्थितिं प्रस्थानं तेनिवान् कुरुते स्म । क इव । सार्वभौम इव । यथा ग्रहाणां चक्रवर्ती भाम्खान् ग्रहैः सहाने आकाशे प्रस्थिति तनुते । 'ग्रहाब्जिनीगोद्युपतिः' इति हेम्यामुक्तत्वात् ग्रहपतित्वं भानोः । किं कुर्वनेप भानुश्च । तमोऽज्ञानं पापं वा ध्वान्तं च निन्नन् व्यापादयन् । पुनः किं कुर्वन् । विश्वं भुवनमुद्रोधयन्प्रतिबोधयन् वोधिवी. जान्वितं वा विदधत् जागरयन् । किंभूतः मुनिभिः । उद्य:प्रकटीभवन्महः परवादिजनेषु प्रतापो येषां तैः । उत् ऊर्ध्वं यद्गच्छत् उपलक्षणाद्दशदिक्षु स्फुरत् झगज्झगिति कुर्वन्महस्तेजो येषाम् ॥ हाते पत्तनात् शिरोत्तरायावन्मार्गः ॥
भीरुभावान्निजं व्यालमालाकुलं भीष्ममौज्झ्याश्रमं नागपूरागता । किं महीमण्डलं भिल्लपल्ली पुरो हीरमूरीन्दुना व्यालुलोके क्रमात्॥३१॥ हीरसूरीन्दुना श्रीहीरविजयसूरिचन्द्रेण क्रमाद्विहारपरिपाटीतः पुरोऽप्रे मिल्लानां