________________
काव्यमाला।
मेनिरे । 'मद्विपलभ्यं पुनराह यस्त्वां तर्कः स किं तत्फलं वाचिमूकः' इति नैषधे । विप्रलधुं पोग्यं विप्रलभ्यमिति तदर्थः ॥
आप्तलक्ष्मीलताया इवोद्यत्फलं वीक्ष्य विश्वेशितुर्देशनावेश्म तत् । गोचरी स्यान्न वाक्चेतसोर्यः क्वचित्समदं विन्दति स्म व्रतीन्द्रः स तम् २४ स व्रतीन्द्रो हीरविजयसूरिः तं मोहदयासादनसदृशं संमदमानन्दं विन्दति स्म ल. भदें स्म । तं कम् । यः संमदः क्वचित्कुत्रापि स्थाने नभःकल्लोलिनीविलसत्कल्लोलमालास्सालितवाग्विलासशालिसुरासुरनरसूरिषु वा वाक्चेतसोर्वचनमनसोर्वा न गोचरी स्याद्विषयो भवेत् । किं कृत्वा। विश्वेशितुस्त्रैलोक्यनायकस्य श्रीमत्तीर्थकृतो देशनावेदमस' मक्सरणं वीक्ष्य लोचनगोचरी कृत्य । किंभूतं तत् पूर्वव्यावर्णितखरूपम् । उत्प्रेक्ष्यतेआप्तस्य जिनराजस्य लक्ष्मी वनत्रयैश्वर्यश्रीः सैव लता विकसद्बली उद्यत्प्रकटीभवत्फलमिव ॥ इति पुरकृतानुसारेण समवसरणवर्णनम् ॥ तीर्थकृद्वत्रचन्द्रेक्षणोद्वेलितानन्दसिन्धोरिवोद्भूतनूतामृतैः। .. खेन तत्राभिनोनूय नव्यैः स्तवैः श्रीजिनं नेमिवान्हीरसूरीश्वरः ॥२५॥ हीरसूरीश्वरस्तत्र समवसरणे स्वेनात्मना नव्यैः सद्यस्कैः स्तुतिरूपवृत्तैः अभिनोनूय अतिशयेन भक्तिभरेण स्तुत्वा श्रीजिनं श्रीमद्भगवन्तं नेमिवान् प्रणमति स्म । उत्प्रेक्ष्यते-स्तवैः तीर्थकृतो जिनेन्द्रस्य वक्रं वदनमेव चन्द्रः पार्वणशार्वरीवरस्तस्येक्षणादालोकनादुद्वेलितस्य वेलामतिकान्तस्योत्कण्ठितस्य आनन्दो मानसान्तःप्रसरत्प्रमोदः स एव सिन्धुरात्क्षीरनीरनिधिस्तस्मादुद्भूतैः प्रकटैर्जातैः अमृतैः सुधारसैरिव ॥
सृष्टसर्वज्ञसंघः सुधाधामवद्वासरान्कांश्चिदत्रातिवाह्य प्रभुः । साधुवगैस्ततोऽन्वीयमानः पुरात्पूर्वदेशं प्रति प्रीतिमान्प्रस्थितः ॥२६॥ ततः पत्तने कतिचिद्दिवसस्थित्यनन्तरं पुरादणहिल्लपाटकपत्तनात्पूर्वदेशं प्रति प्राचीनमण्डलं प्रति प्रस्थितः प्रचलति स्म । किं क्रियमाणः । साधुवगैर्विजयसेनसूरिप्रमुखानेकैर्मुनिमण्डलैरन्वीयमानोऽनुगम्यमानः । किं कृत्वा। तत्र पत्तने कांश्चित्कतिचित्कियत्सं. ख्याकान्वासरान्दिवसान् अत्र पत्तनमध्ये अतिवाह्य अतिक्रम्य । किंभूतः प्रभुः । मृष्टः कृतः सर्वज्ञेन जिनेन्द्रेण सार्ध सङ्गो भक्तिस्तवनादिको येन । किंवत् । सुधाधामवत् । यथा अमृतकान्तिश्चन्द्रः सृष्टो निर्मितः सर्वज्ञस्य श्रीकण्ठस्य शिरःस्थितिलक्षणो येन स ताहगास्ते ॥ सीमभूमौ वटात्पल्लिकायास्ततो भावडस्यात्मभूः सूरिशीतयुतेः ।
वैत्यमर्चामिव श्रीजिनेन्दोमुरोः पादुकां स्तूपमभ्येत्य स प्राणमत् २७ ततः पत्तनात्प्रस्थितेरनन्तरं वटात्पल्लिकाया वटशब्दादप्रे पल्लिका वटपल्लिका 'वडली' इति नानी तस्याः सीमभूमौ ग्रामाद्वाह्यावनीप्रदेशे स्तूपमभ्येत्य स्तूपस्य समीपे