________________
६६०
काव्यमाला।
णावबोद्भुमिच्छया । इति किम् । भूषया वपुःश्रिया कृत्वा अहं विशिष्ये विशेषा भवामि । उताथ वा एतस्मिन्स्मेरदम्भोरुहे गृहमावासो यस्यास्तादृशी श्रीलक्ष्मीदेवी विशिष्यते । 'कथं च स देश: स्वर्गाद्विशिष्यते न' इति चम्पूकथायाम् । विशिष्टो भवति स्म यः ॥
निर्जितस्त्वत्सखास्मन्मुखेन हिया पश्य पाण्डूभवन्भ्राम्यतीन्दुर्दिवि । वीक्ष्यमाणा वपुर्विभ्रमं दर्पणे सूचयन्तीरितीव स्मितं तन्वतीः ॥ ४२ ॥
काश्चिद्दर्पणे आदर्श वपुर्विभ्रमं स्वशरीरसौन्दर्य शोभा वीक्ष्यमाणा निभालयन्तीः सतीः । उत्प्रेक्ष्यते-स्मितमीषद्ध सितं तन्वतीविस्तारयन्तीविदधतीश्च सतीः । इत्यमुना प्रकारेण सूचयन्तीः कथयन्तीरिव । इति किम् । हे दर्पण, त्वं पश्य सावधानतया विलोकय त्वत्सखा तव मित्रमिन्दुश्चन्द्रः । 'जलाच तातान्मुकुराञ्च मित्रानभ्यर्थ्य धत्तः खलु पद्मचन्द्रौ' इति नैषधे मुकुरचन्द्रयोमैत्र्यं मिथः । अस्मन्मुखेन अस्माकं वदनेन निर्जितः पराभवभरं प्रापितः सन् पाण्डूभवन् पाण्डुरो वपुषा जायमानः सन् धवली - तशरीरः ह्रिया लजया कृत्वा दिवि निर्मानुषतया शून्ये नभसि भ्राम्यति पर्यटतीव ॥
निष्कुटानोकहोत्फुल्लपुष्पोच्चये षट्पदान्पाणिभिर्दूरतः कुवसीः । स्पर्धितां विझते वाग्विलासैः सहास्माकमेते हृदीतीव रोषोदयात् ४३ काश्चिनिष्कुटस्य गृहारामस्य अनोकहानां विविधजातिप्ररोपितपादपानामुन्छु. लानि विनिद्रीभूतानि पुष्पाणि कुसुमानि तेषामुच्चयश्रुण्टनं ग्रहणम् । 'उचिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिकाः' इति चम्पूकथायाम् । तथैवोच्चयः षट्पदान् भ्रमरान् पाणिभिः खकरैः दूरतः विप्रकृष्टान् कुर्वतीः प्रणयन्तीः । उत्प्रेक्ष्यते-हृदि हृदयमध्ये इत्यमुना प्रकारेण रोषोदयात्कोपप्रादुर्भावात् इव । इति किम् । यदेते षड्पदा भ्रमराः अस्माकं वाण्या वाचा सह स्पर्धितां संघर्षिभावमभ्यसूयाम् । 'वाण्या भृङ्गीपिकीरवी' इति काव्यकल्पलतावचनाद्धृङ्गीसाहचर्याङ्गोऽप्यागत एव । बिभ्रते धारयन्ति । कुर्वते इत्यर्थः । खद्वेषिणस्तु दूरमुत्सार्यत एवेति ॥
नाभिदने ह्रदेऽम्भोविहारालसास्त्रासमुत्पादयन्ती रथाङ्गात्क्वचित् । तद्विभूषां स्तनाभ्यां गृहीत्वा पुरा किं पुनस्तद्वपुष्पीतिमादित्सया ४४ क्वचित्कुत्रापि गृहोद्यानप्रदेशे नाभिदन्ने नाभिप्रमाणे । 'नाभीरम्या नीलतमालका' इति चम्पूकथायाम् । 'नीला हरितत्विषस्तमालद्रुमा नाभिरम्या नाभिदन्ताः' इति नम्पू. टिप्पनके । हदे द्रहे अम्भोविहारे जलकेलिकरणसमये अलसा मन्थरा लम्पटा वा काश्चित्किरातीः रथाङ्गात् चक्रवाकात् त्रासमाकस्मिकं भयमुत्पादयन्तीजनयन्ती: सतीः । उत्प्रेक्ष्यते-पुरा पूर्व स्तनाभ्यां निजकुचाभ्यां कुत्वा तेषां रथाङ्गानां विभूषां शोभा गृहीत्वा पुनर्द्वितीयवारं तद्वपुषां चक्रवाकशरीराणां पीतिम्नः पीततायाः आदि.