SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। पादपान् लक्ष्यन् मुञ्चन् स्मेरं वसन्तऋतुना विकसितं पलवदलकलिकाकुसुमफलकलितं कृतं माकन्दकारस्करं सहकारतरुं प्राप्नोत्यधिगच्छति ॥ श्रोत्रपत्रैर्निपीय प्रभोरागमामेयपीयूषमानन्दमेदस्विनः । तत्पदाम्भोजमभ्येत्य भेजुर्जनाः पान्थसार्था इव स्मेरदुर्वीरुहः ॥ ५ ॥ जनाः पत्तनश्राद्धलोकाः अभ्येत्यागत्य तत्पदाम्भोज सूरिचरणाविन्दं भेजुः सेवन्ते माप्रणमन्ति स्मेत्यर्थः । के इव। पान्थसार्था इव । यथा पथिकप्रकराः अभ्येत्य दूरात्समागत्य निदाघदाघतप्तीकृतासाः प्रबलपथभ्रमश्रान्ताश्च सन्तः स्मेरन्तं विकसन्तमुर्वीरुहं बहुलपल्लवदलफलच्छायाछन्नं मार्गवर्तिमहीरुहं भजन्ते । 'स्मेरदम्भोरुहारामपवमानमिवानिलः' इति पाण्डवचरित्रे । जनाः किंभूताः । आनन्देन प्रमोदेन मेदखिनः उपचयवन्तः स्फुरद्रोमाञ्चकचकपुष्टवपुषः । किं कृत्वा । प्रभोः श्रीगुरोरागम आगमनं तदेवामेयं प्रमाणातीतं पीयूषममृतं श्रोत्रपत्रैः कर्णपर्णदुन्दुर्निपीयातितृप्ततया पोत्वा । सादरं श्रुत्वेत्यर्थः । अथ च 'पीयूषोऽभिनवं पयः' इति हैम्याम् । सद्यस्कपयःपानाच्च पुष्टाङ्गा भवन्त्येव ॥ आजगामाथ कम्माङ्गजन्मा यतिक्ष्मातलाखण्डल: संमुखं तत्प्रभोः । सूरिणाप्यर्णवेनेव शीतयुतेः पिप्रियेऽद्वैतमस्योदयं पश्यता ॥ ६ ॥ अथ सूरेः पत्तनसमीपे समागमनानन्तरं कम्मानामसाधोरङ्गजन्मा नन्दनो विजयसेननामा यतिषु मुमुक्षुषु अथ वा यतीनां मध्ये मातलस्य महीमण्डलस्याखण्डलो वासवः । सूरीन्द्र इत्यर्थः । तस्य प्रभोः श्रीहीरावेजयसूरीन्द्रस्य संमुखमभिमुखमाजगाम समागच्छति स्म । अपि पुनरस्य विजयसूरेरद्वैतमनन्यसामान्यमुदयं वैभवातिशयप्रादुर्भावं पश्यता स्वयं विलोकयता सता सूरिणापि हीरगुरुणापि पिप्रिये प्रमुदितमद्वैतप्रीतिमत्ता समजायत । केनेव । यथा शीतयुतेः कौमुदीदयितस्याद्वैतमभ्युदयं पश्यता समुद्रेण चन्द्रजनकेन प्रीयते । यस्माद्ये समुत्पद्यन्ते स तेषां पिता, चतुर्दशानामपि रत्नानां समुद्रे समुत्पन्नत्वात्समुद्र एव पिता । यथा लक्ष्म्याः प्रसिद्ध नाम क्षीरोदतनया हैम्याम् , तथा चन्द्रोऽपि प्रसिद्धः समुद्राङ्गजः। तथा च नैषधे-'सिताम्बुजानां विरहस्य यच्छलादभावलिश्यामालेतोदरप्रियाम् । तमः समच्छायकलसंकुलं कुलं सुधांशोबहुलं वहन्निव ॥ इति । 'कुलशब्देन समूहं वंशं वा वहति' इति तद्वृत्तिः ॥ हीरसूरिक्रमद्वन्द्वनम्रीमवत्तन्मुखं प्राप कामप्यनन्यां श्रियम् । कल्पितानल्पसख्यः कथंचिन्मिथः संगतः पङ्कजेनेव शीतद्युतिः ॥ ७॥ हीरसूरेः स्वगुरुश्रीहीरविजयसूरेः क्रमद्वन्द्वे चरणयुगले नम्रीभवत्संजायमानं तन्मुखं विजयसेनसूरिवदनं कामपि वचनगोचरातीतामसाधारणी श्रियं शोभां प्राप लभते स्म । उत्प्रेक्ष्यते-मिथः परस्परं कथंचित्केनापि प्रकारेण कल्पितं निर्मितमनल्पं बहुदृष्टं च
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy