SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] हीरसौभाग्यम् । ५३५ सख्यं मैत्रीभावो येन तादृशः शीतद्युतिश्चन्दः पङ्कजेन पद्मन समं संगतो मिलित इ५ । चरणस्याम्भोजोपमा वदनस्य च चन्द्रसाम्यमित्युत्प्रेक्षा ॥ प्रश्नयामास भट्टारकाधीश्वरोऽनामयादि स्वयं तस्य सूरीशितुः। तेन रेजे पुनः सोऽधिकं सूनुना यौवराज्यान्वितेनैव भूवासवः ॥ ८॥ भट्टारकाधीश्वरो बृहद्गणधराधिराजो हीरविजयसूरीश्वरः खयमात्मना तस्य सूरीशि. तुर्विजयसेनसूरेरनामयादि नीरोगताप्रमुखं समाधिकुशलतादिकं प्रश्नयामास पृच्छति स्म । पुनः स हीरभट्टारकः तेनाचार्येण समधिकं रेजे बभौ । क इव । भूवासव इव । यथा पृथिवीपुरहूतो राजा यौवराज्येन युवराजम्य भावस्तेन यौवराज्यपदवीभावेन युक्तेन युवराजेन सूनुना नन्दनेन कृत्वा राजते ॥ नैककायान्प्रणीय स्वयं दर्शयन्द्वादशाचिः स्वचातुर्यमुामिव । शिष्यसार्था मिथो नव्यकाव्यैस्ततः संस्तुवन्ति स्म तौ सूरिभूभास्करौ९ ततो विजयसेनसूरिसमागमनानन्तरं शिष्यसार्या विद्वद्विनेयव्रजा मिथः परस्परं नव्यकाव्यैः सद्यस्ककवित्वैः कृत्वा तो हीरविजयसेननामानौ सूरी एव भूभास्करौ सू. रिराजौ । 'मध्यंदिनावधि विधेर्वसुधाविवखान्' इति नैषधे । प्रति संस्तुवन्ति स्म वर्णयामासुः । विजयसेनसूरि हीरविजयसूरि श्रीहीरविजयसूरिशिष्या तुष्टुवुः । उत्प्रेक्ष्यतेनैकान्बहून् कायान् मूर्तीः प्रणीय कृत्वा । 'निषेधार्थनकारस्य समासत्वान्नलोपाभावो निषेधार्थवाक्को तत्र निषेधार्थवाची नकारस्तत्र लोपो न भवति नैषधेत्यादौ ज्ञेयः न. अस्तु लोपो भवत्येव' इति प्रक्रियाकौमुद्याम् । उक्तत्वात्समासत्वाच्च नकारस्यानादेशो न स्यादिति । द्वादशाचिबृहस्पतिरा पृथिव्यां खयमात्मनैव खस्यात्मनश्चातुर्य निपुणतां दर्शयन्निव । अथ वा दर्शयन् द्वादशाचिरिव ॥ • तत्समीक्षोत्सुकीभूतदिङ्गायके पौरपुजैः प्रणीते महाडम्बरे । द्यामिवेन्द्रो जयन्तेन भट्टारकस्तेन सूरीन्दुना प्राविशत्पत्तनम् ॥१०॥ भट्टारकः । यद्यपि भट्टारकशब्देन पूज्यत्वख्यापनम् ‘पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः' इति हैम्यामुक्तत्वात् पूज्यपादाः तथा भूपतिर्भोजदेवः तथा अद्भधारकं गृहीत्वेत्यादी प्रशस्यार्थप्रकारकत्वं दृश्यते, तथाप्यत्र जैनशासनानुसारेणाधुना लोकरूव्या भट्टारकशब्देन वृहद्गणाधिपस्तच्छिष्यस्तस्मिन्बृहद्गणाधिपे विद्यमाने आचार्य इत्युच्यते इति संप्रदायः । श्रीहीरविजयसूरिः तेन सूरीन्दुना विजयसेननाम्ना सूरिचन्द्रेणाचार्यचन्द्रमसा सार्क पत्तनं पुटभेदनं प्राविशत्प्रविशति स्म । 'द्वीपान्तरेभ्यः पृथिवीपतिभ्यः क्षणादवापे पुटभेदनं तत्' इति नैषधे । क इव । न्द्र इव । यथा पुरंदरो जयन्तेन निजनन्दनेन जयदत्तेन समं द्यां दिवं नन्दनादो क्रीडित्वागत्य प्रविशति । कस्मिन् सति । पौरपुजैर्नागरिकनिकरैर्महाडम्बरे अतिशयितोत्सवे प्रणीते कृते सति । किंभूते महाडम्बरे । तस्य महाडम्बरस्य समीक्षा सम्यक्सर्वप्रकारेणावलोकनं तत्रो.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy