________________
. १२ सर्गः]
हीरसौभाग्यम् । कापि शार्दूलविक्रीडितं दृश्यते क्वापि दृप्यद्भुजंगप्रयातं पुनः । सूरिशीतयुतेः सर्पतः पद्धतौ छन्दसां जातिवत्कुञ्जभूमिः स्म भूत् ॥३॥ सूरिशीतयुतेः हीरसूरिचन्द्रस्य पद्धतौ मार्गे सर्पतः प्रचलतः कुअभूमिर्वनावनी छन्दसां विधवृत्तानो जातिरेव स्म भूत् बभूव । ‘म्मयोगेऽप्यटो लोपमिच्छन्ति' इति सारस्वतव्याकरणे । यत्र कुञ्जभूमौ छन्दोजातौ च कुत्रचित्प्रदेशे वाणिनी। 'छेका मत्ता च वाणिनी' इति हैम्याम् । तथा 'यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानाम्' इति रघुवंशे । उद्याने कीडार्थ समेता दृश्यते । किंभूता वाणिनी । स्रग्विणी खजो मुक्ताफलानां सरिविशेषाः कुसुमानां माला हारा विद्यन्ते यस्याः । पुनः शालिनी अत एवानेकालंकारैः शालते शोभते इत्येवंशीला । तथा वाणिनी, स्रग्विणी, शालिनी चैतास्तिस्रोऽपि छन्दोजातयः । तथा क्वापि अंदेशे लोकान् कुसुमावचयग्रथनान्योन्यपरिधापनान्दोलनगाननर्तनादिमानेककौतुकक्रीडाकारिणो जनान्पृणातीति लोकंपृणा सकलजनसुखकारका वातानां पवनानामूर्मिका वीची समेति । अथ च छन्दसि वातोर्मिकाजातिः । पुनः कचित्कमलाकरादिषु हंसमाला राजमरालराजी कीडन्ती दृश्यते । इंसमाला छन्दोजातिश्च । कापि स्थाने स्मेरोद्यानादौ कन्या पुष्पावचयार्थमागता पुपाजीविकुमारिका विलोक्यते । अथ च कन्या छन्दोजातिः । पुनः कापि सजलशार्दू. लप्रदेशादी मृगी खलघुबालकलिता सारङ्गी चरन्ती निरीक्ष्यते । मृगी छन्दोजातिश्च । पुनः कुत्राचेत्क्रीडाकाननादौ मालतीजातिनामलता प्रेक्ष्यते । किंलक्षणा । पुष्पितं कुसु. मितं प्रसूनपरम्परापरिचितमग्रं शिखरं यस्याः सा तथा । जातिः पुष्पिताग्रा च द्वे अपि छन्दोजाती । कापि कारस्करकोटरबिलादो दृप्यतां दर्प मदं वित्रतां मदोन्मादिनां भुजंगमानां सर्पाणां प्रयातं गमनं निभाल्यते । भुजंगप्रयातं छन्दोजातिश्च । पुनः कापि गिरिगह्वरादीनां प्रदेशे शार्दूलानां व्याघ्राणां चित्रकायानां वा अथवा अन्य. हिंस्रखापदविशेषाणां विशेषेण निजमहिलाभिर्वालकैर्वा समं क्रीडित विलसितं विभाव्यते शार्दूलविक्रीडितनानी छन्दोजातिश्च ॥ युग्मम् ॥
निम्बजम्बीरजम्बूकदम्बद्रुमान्स्मेरमाकन्दकारस्करं कीरवत् । .. लवयन्प्रामसीमापुरीः स प्रभुः प्राप्तवान्पत्तनम्योपकण्ठं कमात् ॥ ४ ॥
सं प्रभुः हारसूरीश्वरः क्रमाद्रामानुग्रामविहारपारेपाट्या पत्तनस्याणहिल्लापाटकनामपुटभेदनस्य उपकण्ठं संनिधानं प्राप्तवानासादयामास । किं कुर्वन् । ग्रामान् लघुपुराणि संनिवेशान्वा सीमामुभयोामयोर्नगरयोर्वा मध्यभूमी ग्रामसर्मापभूर्वा पुरीमहन्नगराणि विश्वलपुरमहीशानकादीनि लङ्घयन्नतिक्रामन् । किं व कीरवत । यथा शुको निम्बान् पिचु. मन्दान् जम्बीरान जम्मिलान् वृक्षविशेषान् जनप्रसिद्धान् जम्बून् ठ्यामफलान्प्रसिद्वान् कदम्बानीपान् पाराकदम्बान् धूलीकदम्बांश्च जातिद्वयविशिष्टान् एतानेव दुमान् १. पाणिनीयतन्त्रे तु स्मशब्दयोगेऽडागमाभावाविधानात्खभूदिति पाठः साधुः.