________________
६३१
काव्यमाला।
दर्भनिार्देष्टमयो कुमारो नारीमनांसीव चतुष्कमन्तः' इति । कस्मिन्सति । पूर्जने राजनगरानेकश्रावकवर्ग वचनानां वाचां विषयाद्गोचरादतीतमतिशायित्वाद्वाग्गोचरमतिक्रान्तम् । वक्तुमशक्यमित्यर्थः । पुनः स्फीतं पदे पदे क्षणे क्षणे च वर्धमानमेव न तु हीयमानं महोत्सवमतिमहं वितन्वति विस्तारयति कुर्वति सति ॥
यं प्रासूत शिवाहसाधुमघवा सौभाग्यदेवी पुनः __पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयु
क्सौभाग्याभिधहीरसूरिरचिते सर्गोऽयमेकादशः ॥ १५८ ॥ पण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये एकादशानां संख्यापूरणः एकादशः सर्गः संजात इति ॥
इति पण्डितसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचितायां स्वोपज्ञहीरसौभा. : ग्याभिधमहाकाव्यवृत्ती अकब्बरसाहिपुरस्तादाकारितदूतद्वन्द्वागमनविज्ञपनतत्प्रेषणाकमिपुरपतिपार्श्वगमनश्राद्धाकारणसाहिप्रवृत्तिकथनसूरिपार्श्वप्रस्थापनतदागमनतद्वाचिककथनस्फुरन्मानार्पणसूरिप्रस्थानशकुनभवनराजनगरागमनखानसंमुखागमनस्वसदनानयनगजाश्वादिढीकनतनिषेधनखानचमत्कृतिकरणवसत्यागमनादिवर्णनो नाम एकादशः सर्गः ॥
द्वादशः सर्गः । सूरिराजोऽथ संप्रस्थितस्तत्पुरान्मेवडाभ्यां पुरोगामुकाभ्यां युतः । श्लोकचन्द्रातपश्वेतिताशामुखो यामकाभ्यां शशी पूर्वशैलादिव ॥ १ ॥
अथ राजनगरे कतिचनदिनस्थित्यनन्तरं सूरिराजः श्रीहीरविजयसूरिः तत्पुरादहम्मदाबादनगरात्सम्यक् पदे पदे संमानमहोत्सवपूर्वकं प्रस्थितः पुरश्चचाल । किंमूतः । पुरो गुरोरग्रे गामुकाभ्यां गमनशीलाभ्यां मेवडाभ्यां मोंदीकमालनामाभ्यां साहिपहितदूताभ्यां दूतानां लेखहारकाणां च । मुद्गलजातिप्रसिद्धं मेवाडा इत्यभिधानं प्रोच्यते । पनः किंमतः । शोको यशः स एव चन्द्रातपश्चन्द्रिका तेन श्वेतितानि उज्ज्वलीकतानि आशानामर्थाद्दशदिगङ्गनाना मुखानि वदनानि येन । क इव । शशीव । यथा चन्द्रवारवशापुरः समेताभ्यां पुनर्वसूतारकाभ्यां युक्तः । 'पुनर्वसू तु यामकौ' इति हैम्याम् । युक्तः पूर्वशैलात्प्राचीपर्वतात्प्रतिष्ठते । किंभूतः शशी । यशःसदृशचन्द्रगोलिकया उज्ज्वलीकृद्दिमण्डल: ॥
कुत्रचिद्वाणिनी स्रग्विणी शालिनी यत्र लोकंपृणा क्वापि वातोमिका । हंसमाला क्वचित्कापि कन्या मृगी कुत्रचिन्मालती पुष्पिताग्रा पुनः ॥२॥