________________
११ सर्गः] - हीरसौभाग्यम् ।
१३५ यदुक्तम्-'नेहला नैव नेत्रेभ्यो घनेभ्यो नोपकारिणः । पिकेभ्यो नो प्रियालापा दृश्यन्ते भुवने परे॥
किं बहुनाशुगसूनोरिवात्मभतुर्विधातुरादेशम् ।
नीतिमतो दाशरथेरिव राजन्धर्मलाभोऽस्तु ॥ १५५ ॥ हे राजन् , किंबहुना भूयिष्टभाषणेन किमस्तु न किमपि । ततस्तव धर्मलाभ: धर्मलाभ इति नाना अस्मत्पक्षसंमत आशीर्वादोऽस्तु भवतात् । तव किं कर्तुः। आ. स्मभर्तुः स्वस्वामिनः अकब्बरसाहेरादेशमाज्ञां विदधातीत्येवंशीलस्य । कस्येव । आशुगसूनोरिव । यथा पवनात्मजन्मा हनूमान् खखामिनो रामचन्द्रस्यादेशविधातासीत् । पवनस्य नामपरावृत्तिर्वहुधा दृश्यते । यथा हैम्याम्-'हनूमान् वज्रकण्टकः मारुतिः' इति । तथा चम्पूकथायाम्-'प्रभञ्जनाः खण्डिताञ्जनाधरप्रवालाः' इत्यादि । पुनस्तव किंलक्षणस्य । नीतिमतो युक्तन्यायोपपन्नस्य । कस्येव । दाशरथेरिव । यथा दशरथस्यापत्यं दाशरथिः श्रीरामः न्यायवानासीत् ॥ इति सूरिणा तस्य खामिभक्तता प्रकाशिता ॥
तदुदितमधिगत्य चित्रमन्तर्दधता तेन पुरीपुरंदरेण । इव कजमलिनाथ चुम्बता तच्चरणयुगं यतिकुञ्जरो व्यसर्जि ॥१५६॥ अथ सूरिवचनानन्तरं तेन पुरीपुरंदरेण अकमिपुराधिपतिना साहिबखानेन यतिकुञ्जरः श्रीहीरविजयसूरिः व्यसजि विसज्यंते स्म । खस्थानगमनायानुमेने। खवसति प्रति प्रेषित इत्यर्थः । तेन किं कुर्वता । तच्चरणयुगं सूरिपादारविन्दद्वन्द्वं चुम्बता स्पृ. शता । केनेव । अलिनेव । यथा भ्रमरेण कर्ज कमलं चुम्ब्यते । पुनः किंभूतेन । तदु
दितं सूरिभाषितमधिगत्य विज्ञाय सम्यगवगम्य अन्तः खान्तःकरणे चित्रमाश्चर्य द: धता बिभ्रता ॥
वसतिमसुमच्चेतांसीव प्रविश्य महोत्सवं
वचनविषयातीतं स्फीतं वितन्वति पूर्जने ।
सरसिरुहभूः प्रोजृम्भाम्भोरुहीव सुखं स्थितः .. कतिचन दिनांस्तस्मिन्सूरीश्वरोऽगमयत्पुरे ॥ १५७ ॥
सूरीश्वरो हीरविजयसूरिः तस्मिन्नकमिपुरे कतिचन कियत्संख्याकान् दिनानगमयदतिकामति स्म । किंभूतः । सुखं यथा स्यात्तथा स्थितः । क इव । सरसीठहभूरिव । यथा पद्मभूर्ब्रह्मा प्रोज्ज़म्भाम्भोरुहि विकसिततामरसे तिष्ठति । 'ताम्यस्तामरसान्तरालवसतिर्देवः खयंभूरभूत्' इति खण्डप्रशस्तौ ब्रह्मणः कमले वसतिः । किं कृत्वा । वसतिमुपाश्रयं प्रविश्य उपाश्रयमध्ये गत्वा । स्थित्वेत्यर्थः । कानीव । असुमच्चतांसीव यथा जनानां भव्यलोकानां चेतांसि मनांसि प्रविवेश । चित्तेषु प्रविष्ट इत्यर्थः । अत्रैकवचनस्य बहुवचनोपमास्ति । अन्यत्रापि क्वाप्येवं दृश्यते। यथा रघुवंशेऽप्येवं दृश्यते-'वै