SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः] हीरसौभाग्यम् । द्विपद्वीपिद्विपद्वेष्यमुख्यजन्तूचितां क्वचित् । पदवीं क्षोणिभृत्क्षोणीमिव सूरिरलङ्घयत् ॥ १०८ ॥ सूरिः क्षोणिभृतः पर्वतस्य तल्लाटदेशाधिपस्य च क्षोणी गहरोवी भूमीमिव पदवीं मार्गमलक्ष्यत् अतिक्रामति स्म । किंभूताम् । क्वापि. कुत्रापि प्रदेशे स्थपुटत्वं विषमो तत्वं संजातमस्यामिति स्थपुटिता तथा कापि स्थाने द्रुमाणां द्रोणीभिर्विविधतरुश्रेणीभिः समाकुलां निर्भरभृताम् । द्रोणिशब्दः श्रेणीवाची । यथा चम्पूकथायाम्-'भिल्लीपलवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु' इति । 'द्रोणी तु नीवृतिभेदे शैलसंधौ च' इत्यनेकार्थः । तथा 'द्रोणि रिदन्तोऽपि समूहार्थवाची च' इति तदवचूर्णिः । तथा क्वचित्कुत्रचिद्देशे वहन्त्यो महीधरकुण्डादिभ्यो निःसरन्त्यो वाहिन्यो नद्यो यत्र । पुनः क्वचिद्गह्वरादिषु नीरागमननिम्नप्रदेशादिषु वा कोतरा इति प्रसिद्धेषु किरातैर्भिल्लैराकलितां संयुताम् । पुनः क्वचिदरण्यादौ द्विपा मत्तमतङ्गजा द्वीपिनो व्याघ्रचित्रकाया द्विपद्वेष्याः केसरिणस्त एव मुख्याः प्रकृष्टाः प्रमुखा वा ये जन्तवो वनसत्त्वास्तेषामुचितां निवासयोग्याम् ॥ युग्मम् ॥ क्रमाद्वटदले फुल्लाम्भोजे भृङ्ग इवागमत् । स्तम्भतीर्थस्य सङ्घन तस्मिन्प्रभुरवन्धत ॥ १०९ ॥ क्रममद्विहारपरिपाट्या प्रभु_रसूरिर्वटदले 'वडदलं' इति नाम्ना प्रसिद्ध पुरे आगमदाजगाम । क इव । भृङ्ग इव । यथा फुल्ले विकसिते अम्भोजे कमले मधुकर आगच्छति । पुनस्तस्मिन्वटदलाप्रामे प्रभुः स्तम्भतीर्थसंघेन साधुसाध्वीश्राद्धश्राद्धीरूपजनसमुदायेन अवन्धत समेत्य नमस्कृतः ॥ भक्तिप्रहमना जिनाधिपमताधिष्ठायिनी निर्जरी . तस्मिन्नत्तमवाकिरद्रतिपतिं नीरन्ध्रमुक्ताफलैः । श्रुत्वा तीर्थकरानुकारिभगवन्माहात्म्यमुत्कण्ठिता विद्मो वन्दितुमागताः प्रियतमा राज्ञः खतारोत्करैः॥११०॥ • तस्मिन्वटदलाग्रामे भक्त्या सेवाभक्त्या प्रहं ननं प्रवणं निर्भरं वा मनो मानसं यस्यास्तादृशी जिनमतस्य श्रीजिनशासनस्य अधिष्ठायिनी अधिष्ठापिका निर्जरी सिद्धायिका नानी देवता नक्तं रात्रौ । कली प्रायो देवतानां नक्तमेवागमस्य दृश्यमानत्वात् श्रयमाणत्वाच्च निशि। नीरन्धैर्निच्छिदैर्वधर हितैः। रक्षितरित्यर्थः । मुक्ताफलैमौक्तिकैर्ऋतिपति श्रीहीरविजयसूरिमवाकिरद्वर्षयामास । “अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः' इति रघुवंशे । तत्र वयमेवं विद्मो जानीमः । उत्कण्ठिता उत्कण्ठाकलिता उत्सुकीभूता सती खताराणां खशरणीभूतानामात्मपरिवारीभूतानां तारकारणां तारकाभिधसेवकानां ज्योतिषां चोत्करैः समूहैः सार्धं राज्ञः कस्यचिनृपस्य चन्द्रस्य वा प्रिय
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy