________________
५१६
काव्यमाला |
पाङ्भ्यः पराः कथिता:' इति क्रियाकलापे । तदर्थसिद्धेस्तस्य सूरेरर्थसिद्धेः कामितका - यैनिष्पत्तेः प्राक् पूर्वं प्रकटीभवन्ति प्रकाशानि जायमानानि चिह्नानि किंलक्षणानीव । शकुनशब्दः पुंनपुंसके दृश्यते ॥
वाचोऽनुबिम्बाभिरिवाङ्गनाभिराशीर्भिरध्वन्यभिनन्द्यमानः । महोदयोदर्कविधायिनो धिया विमृश्य सूरिः शकुनान्पुरोऽचलत् १०४
सूरिस्तपागच्छनायक: महानतिशायी उदयो मोक्षश्च स एवोदर्क उत्तरकालजं फलं - तं विदधति कुर्वन्तीत्येवंशीलान् शकुनान् धिया स्वबुद्धया विमृश्य विचार्य पुरोऽग्रे अचलच्चचाल प्रतिष्ठते स्म । किं क्रियमाणः । अध्वनि प्रस्थानमार्गे अङ्गनाभिः श्राद्धवधूभिराशीर्भिर्मङ्गलशंसनवाणीभिरभिनन्द्यमानः स्तूयमानः । उत्प्रेक्ष्यते - अङ्गनाभिर्वाचो वाग्देवताया अनुबिम्बाभिः प्रतिकृतिभिरिव । सरस्वतीदेवीप्रतिबिम्बाभिरिव ॥ इति हीर विजयसूरेः प्राचीं दिशं प्रति प्रस्थितौ शुभशकुनानि ॥
द्विवेललीलाप्रविसारिवेलापयोभुजाभ्यां परिरभ्य भूम्ना । मत्तेभयानामिव वल्लभेनाम्भोराशिना खाकमवाप्यमानाम् ॥ १०५ ॥ महीयसीं नाम महीं स्रवन्तीं विजृम्भिहैमाजरजःपिशङ्गाम् । वेणीमिव स्वर्णमयीं नदीशनेमीन्दिरायाः प्रभुरुल्ललङ्के ॥ १०६ ॥ प्रभुहरगरिः महीं नाम स्रवन्तीं नदीमुल्लल उत्तरति स्म । किंलक्षणाम् । महीयसीमतिशयेन महतीम् । महत्प्रमाणामित्यर्थः । पुनः किंलक्षणाम् । विजृम्भिनां विकसनशीलानां हैमानां काञ्चनसंबन्धिनामव्जानां कमलानां रजोभिः पीतपरागैः कृत्वा पिशङ्गां पीतवर्णो संजाताम् । उत्प्रेक्ष्यते - नदीशनेमी न्दिरायाः । सरित्पतिमेखलालक्ष्य भूमीश्रिया इत्यर्थः । स्वर्णमयीं काञ्चनरचितां वेणीं स्त्रीशिरोरुहाभरणं संयतानां केशानामुपरि धीयते । केशाः संयतास्तन्मध्ये क्षिप्यते वा सा स्वर्णमयी प्रलम्बा गजशुण्डाकारा वेणीत्युच्यते । खर्णवेणीति शिरोरुहभूषणमधुना दक्षिणस्यां श्रूयते दृश्यते च । महीं किं क्रियमाणाम् । अम्भोराशिना समुद्रेण खाऊं निजोत्सङ्गमवाप्यमानाम् । केन कामिव । वल्लभेन मत्तेभयानामिव । यथा स्वकान्तेन मदोडर सिन्धुरगमना स्वप्राणप्रिया स्वकीयक्रोडं प्राप्यते । किं कृत्वा । द्वे वेले वारौ यत्र तद्दिवेलं लीलया स्वभावेन नोपाधितः विश्वस्वाभाव्यतः प्रकर्षेण विसरणशीलयोर्विस्ता रिज्योर्वे लयोरम्भोवृद्धयोः पयसी सलिले एव भुजे बाहू ताभ्यां कृत्वा भूम्ना बाहुल्येन परिरभ्य वपुषोरेकी करणेन गाढमा लिङ्गय ॥
क्वापि स्थपुटितां क्वापि द्रुमद्रोणीसमाकुलाम् ।
क्वचिद्वहद्वाहिनीकां किराताकलितां क्वचित् ॥ १०७ ॥