SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः] ५१५ हीरसौभाग्यम् । वा उवाच ते स्म । उत्प्रेक्ष्यते-विभोः सूरीश्वरस्य सेवनायै सेवाकरणार्थ त्रिलोकी विश्वत्रयोमाकारयन्निव ॥ ममा द्विजिह्वा यथा यान्ति दूरे तवापीति बभ्रुवदन्दक्षिणोऽभूत् । तवाधीश वामोऽप्यवामोऽस्तु महत्खरस्य खरः किं ब्रवीतीव वामः१०० बभ्रुनकुलः प्रभोर्दक्षिणोऽनुकूलो दक्षिणदिग्भागभागभूत् । वामाद्दक्षिणदेशे जगामेत्यर्थः । उत्प्रेक्ष्यते-इति वदन्कथयनिव । इतेि इयं गर्भितोत्प्रेक्षा । इति किम् । हे अधीश, यथा ममाग्रे द्विजिट्टा भुजगा दूरे यान्ति तथा तेनैव प्रकारेण तवाप्यग्रे द्वि. जिहा द्विरसना मत्सरिणः खलाः पिशुना दूरे यान्तु । पुनः खरस्य गर्दभस्य खरः । उत्प्रेक्ष्यते-इति ब्रवीतीव भाषते इव । किंभूतः । वामः सव्यभागवर्ती । इति किम् । हे अधीश, तव वामोऽपि प्रतिकूलोऽपि मदहमिवावामोऽस्तु अनुकूलो भवतात् ॥ यतो जन्मिनामीप्सितं शर्म दत्से प्रभो भिन्धि नस्तेन तिर्यक्त्वदुःखम् । इतीव म विज्ञप्यते तित्तिरैणैः स सव्यापसव्योद्भवद्धानयानैः ॥ १०१॥ तित्तिराः सरकोणाः । लोके 'गणेश' इति प्रसिद्धाः । तथा एणा मृगाः हरिणास्तैः सध्यापसव्ययोर्वामदक्षिणयोरुद्भवन्ति प्रकटानि जायमानानि यानि ध्वानाः शब्दाः तथा यानानि गमनानि तैः कृत्वा । उत्प्रेक्ष्यते-स सूरिरिति विज्ञप्यते स्म । तस्य प्रभो. रिति विज्ञप्तिर्विधीयते स्म । इति किम् । हे प्रभो, यतः कारणात्वं जन्मिनां प्राणिनामीप्सितं मनोवाञ्छितं शर्म सुखं दत्से ददाति तेन कारणेन त्वं नोऽस्माकं तिर्यक्त्वस्य तिर्यक्त्वेन वा यदुःखं कटमसुखं वा भिन्धि भेदय नाशयेति ॥ व्यपोहैकदृक्त्वं त्वमस्मद्विगानं रसन्तीति किं वायसास्तस्य वामाः । . शुभायामरी भैरवा वाभ्युपेताप्यवामाभवटैरवी निःस्खनन्ती ॥ १०२॥ 'वामाः सव्ये भागे वर्तमाना वायसाः काकाः । उत्प्रेक्ष्यते-इति रसन्ति किम् इत्थं वदन्तीव । इति किम् । हे प्रभो, त्वमत्मद्विगानमस्माकमपवादं लोके निन्दाकारि एकदृक्त्वं काणक्षत्वं धूर्ततामित्यपि ध्वनिः । व्यपोह निराकुरु । अपि पुनः निःखनन्ती शब्दायमाना भैरवी पक्षिविशेषः । लोके 'भईरव' इति प्रसिद्धा अवामा दक्षिणा अ. नुकूला अभवत्संजाता । उत्प्रेक्ष्यते-शुभाय कल्याणकरणाथै भैरवी भवानीनामा भवानीलभिधाना अमरी देवी वाभ्युपेता समागता ॥ अमुष्य मुख्याः शकुनाः परःशताः परेऽप्यभूवन्शुभशंसिनः पथि । तदर्थसिद्धेरुपगन्तुकायाश्चिह्नानि किं प्राक्प्रकटीभवन्ति ॥ १०३ ॥ अमध्य श्रीहीररेः पाथ मांग शुभशंसिनः शुभोदककथयितारः परेऽन्येऽपि पुरवनसंबन्धिनः परःशताः शतशः मुख्या: प्रशस्या अभूवन्संजज्ञिरे । उत्प्रेक्ष्यतेउपगन्तुकाया आगमनशीलायाः । भविष्धन्या इत्यर्थः । 'आगमने गमनार्थाः समभ्यु.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy