________________
११ सर्गः ]
हीरसौभाग्यम् ।
१११
कलिका येषु तादृशाङ्गानि काया येषाम् । कया । तस्य सूरेगिरा वाण्या । तस्य किंलक्षणस्य | लोकंपृणस्य त्रैलोक्यलोक स्याह्लादोत्पादकस्य । गिरा किं कुर्वन्त्या । अमृतं सुधारनं मोक्षं वा किरन्त्या विस्तारयन्त्या पायन्या ददल्या च । अमृतपान मित्र प्रीतिमुत्पादयन्त्या मुक्तिदायिन्या च । कोरकिताङ्गाः क इव । धाराकदम्बा इव । यथा विसौहित्यविधायिनोऽम्बुवाहस्य मेघस्यामृतं घनसलिलं वितन्वन्त्या वृष्ट्या वर्षणेन कृत्वा धाराकदम्बाः प्रोल्लसल्लोममालिकातुल्यैः कोरकैः कुसुमकलिकाभिः कान्ताः कायाः शाखातिशाखारूपा देहा भवन्ति । धाराभिर्जलदजलवृष्टिभिराहताः कदम्बद्रुमाः धाराकदम्बाः । धाराहताः किल कदम्बाः पुष्यन्तीत्यशास्त्रे सिद्धान्तेऽपि चश्यते—'धाराहयकयम्बसमुच्छसिरोमकुत्रा' इति । तथा 'स्तोकेनेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः' इति चम्पूकथायाम् । 'वर्षाकालमधिगत्योज्जृम्भिता नीपाः धाराकदम्बाः । रजसि ये पुष्पन्ति ते धूलीकदम्बा: । वर्षासु ये पुष्पन्ति ते धाराकदम्बाः ' इति चम्पूकथाटिप्पनके !!" इति पाठान्तरम् ॥
जडिम्ना॒ निजां दूषितामङ्गयष्टिं तपोभिस्त्यजन्नूर्ध्वसंस्थानमुख्यैः । सुमेरुः किमादत्त सूरींन्द्रदेहं न चेह प्रतीकाशधैर्यः स कस्मात् ॥८८॥ सुमेरुः सुवर्णाचल: । उत्प्रेक्ष्यते - सूरीन्द्रस्य देहं कायं किमादत्त गृहीतवानिव । सूरिशरीरी वभूवेत्यर्थः । किं कुर्वन् । ऊर्ध्वमुध्वभूय यत्संस्थानं सम्यक् समीचीनासमीचीनतया वा स्थितिर्निष्टा वा तत्प्रमुखैस्तपोभिर्निरन्नपानादिकष्टैर्यमनियम विशेषैर्वा कृत्वा जडिना दृषत्तया जायेन दूषितां कलङ्कितां निजामात्मीयामङ्गयष्टिं वपुलतां त्यजन्नुज्झन्। एवं चेन्न तर्हि, स सूरिः कस्मात्कारणात् अप्रतीकाशमसाधारणं धैर्य धारिमा यस्य सः । अद्वैतधीरताकलितः कथं भवेत् ॥
यदुद्यत्सते भूधवस्योपकर्तुं स्वयं सूरिकण्ठीरवस्तद्धि साधु ।
विनैतं कथं सोऽवबुध्येत धीमान्यथा कार्तिकैकादशीमब्धिशायी ॥८९॥ सूरिकण्ठीरवः हीरविजयसूरिसिंहः स्वयमात्मना यद्भूधवस्याकब्बरस्योपकर्तुमुपकारं कर्तुमुद्यत्सते प्रागल्भते उद्यमं प्रयत्नं कुरुते । हि निश्चितम् । तत्साधु सम्यक् । यत्कारणादेतं सूरिं विनास धीमान् महाप्राज्ञः कथं केन प्रकारेणावबुध्येत सम्यग्ज्ञानमवा• मुयात् । क इव । अब्धिशायीव । यथा कार्तिकमासस्यैकादशीं शुक्लैकादर्शी हरिप्रबोधतिथिं देवउठणीएकादशी तामन्तरेण कृष्णः कथं जागर्ति । वर्षासमयमनुलक्ष्यीकृत्याब्धौ समुद्रे शेते इत्येवंशीलोऽव्धिशायी ॥
अहो पश्यतास्य प्रभोः साहसिक्यं परं येन नापेक्षते कंचनापि । द्विजेशद्विपद्वेषिपूषप्रदीपैः प्रतीक्ष्येत किं कापि साहायकाय ॥ ९० ॥ अहो इति परस्परसंवोधने । भ्रातरः अस्य प्रभोः श्रीगुरोः साहत्तिक्यं साहसतां साहसकर्मतां सहस्रा वर्तते इति साहसिकः । 'भोज: सहाम्भसा वर्तते' इति इक् ।