________________
५१०
काव्यमाला |
अथेति पूर्वोक्तकथनानन्तरं तेन हीरसूरिणा इति पूर्ववाक्यमुदित्वा कथयित्वा श्राद्धपुरस्वानिवेद्य आस्ये स्ववदने अनध्यायिका यस्यां तिथौ किमपि नाधीयते सानध्यायिका तिथिः । ‘प्रतिपत्पाठनाशिनी' इति वचनात् । वास्यते स्म वासिता । मौनं कृत्वा स्थितमित्यर्थः । केव । प्राघुणीव । यथा आश्रये स्वगृहे कापि पूर्वपरिचिताप्यपराप्यभ्यागतिका सौजन्यात्स्थाप्यते आदरपूर्व रक्ष्यते । उत्प्रेक्ष्यते - तदा तस्मिन्नवसरे निजास्यामृतांशोरात्मीयवदनचन्द्रस्य तिथीनां प्रतिपदादिदिनानां प्रणयति करोति इति प्रणीतत्त्वं तिथिकारकत्वम् । 'तिथिप्रणी व्यभिधानत्वात् श्वेतवाज्यमृतसूस्तिथिप्रणी' इति हैम्याम् । सार्थकं सत्यार्थ निर्मित्सता निर्मातुं कर्तुमिच्छता वाञ्छतेव ॥ इति हीरसूरिप्रतिवचनम् ॥
प्रभोर्वाक्सुधासारमाकण्ठमेते सकर्णा निपीय खकर्णाञ्जलिभ्याम् । सृजन्तो निमेषानपि क्ष्मां स्पृशन्तो दधुः सौमनस्यं तदाश्चर्यमेतत् ८६ एते सकर्णाः प्राज्ञाः श्राद्धाः निमेषान्नयननिमीलनोन्मीलनानि सृजन्तः कुर्वन्तोऽपि पुनः क्ष्मां क्षोणीं स्पृशन्तोऽपि पादाभ्यां भुवं संघट्टयन्तोऽपि यत्सुमनसां भावः सौमनस्यं देवत्वं दधुः धारयन्ति स्म । देवा हि निमेषान्न कुर्वते भूमीमपि न स्पृशन्ति च । एते तु तथा नेति एतन्महदाश्चर्यमतिशायि चरित्रम् । वस्तुतस्तु शोभनप्रसन्नमनस्त्वमिति । किं कृत्वा । प्रभोहींरसूरेर्वाक् वाणी सैव सुधा पीयूषं तस्या आसारो वेगवती वृष्टिः । अथ वा सुधाया अमृतादपि सारं वस्तु श्रेष्ठः पदार्थः । तं पीत्वा । कथमाकण्ठं कण्ठपीठं यावत् आस्वाद्य सादरं श्रुत्वा वा ॥
I
किरन्त्यामृतं प्रीणितानेकजन्तोगिरा तस्य धाराकदम्बा इवामी । समुल्लासिलोमावलीकोरकाङ्गा इदं व्याहरन्ति स्म पौराः प्रमोदात् ८७ अमी अकमिपुरीयाः पौराः श्राद्धाः इदं वक्ष्यमाणं व्याहरन्ति स्म बभाषिरे । किम् । समुल्लासिनी प्रोल्लसनशीला लोमावली रोमराजी एव कोरकाः कलिका अङ्ग पुतायां येषां ते । कया कृत्वा । प्रीणिताः प्रीतिं प्रापिताः अनेके यावजातीया जन्तवः प्राणिनो येन तादृशस्य गुरोरमृतं सुधां किरन्त्या विस्तारयन्त्या भव्यानाममृतपानं कारयन्त्या गिरा वाण्या । उत्प्रेक्ष्यते-- धाराकदम्बा इव । यथा धाराभिर्जलवाहवृष्टिभिराहिताः संसिक्ताः कदम्बा धाराकदम्बाः कोरकिताङ्गाः कुम्मलकलितशाखा भवन्ति ॥
“किरन्त्यामृतं तस्य लोकंपृणस्याम्बुवाहस्य वृष्टयेव धाराकदम्बाः । गिरोल्लासिलोमावलीकुङ्मलाङ्गा इदं व्याहरन्ति स्म पौराः प्रमोदात् ८७
पौरा नागरिकाः प्रमोदादानन्दादिदं वक्ष्यमाणं व्याहरन्ति स्म भाषन्ते स्म । किम् । उल्लसतीत्येवंशीला उल्लासिनी या लोमावली रोमराजी सैव कुद्मलाः कोरका: