________________
११ सर्गः] हीरसौभाग्यम् ।
५०७ कावत्कर्णभूषणमिव कणों पूर्यते अनयेति कर्णपूरा तामकर्णपूरी करोति स्मेति कर्णपूरीचकार इति चित्रं महदाश्चर्यमास्ते । यतः कर्णभूषणं तु भोगीन्द्रस्यैव युज्यते न तु योगीन्द्रस्य । अयं तु योगीन्द्रोऽपि सन् कर्णिकां दधारेत्याश्चर्यम् । किंभूतां कर्णिकाम् । सुवर्णेन काश्चनेनाङ्किता घटिताम् , सुशोभना वर्णा अक्षराणि तैः कलिताम् । पुनः किंभूताम् । सुष्ठ हृदयाह्लादविधायिन्य उक्तयो वचनचातुर्य एव मुक्तावली मौक्तिकपतिः तया शालमाना शोभमाना। पक्षे श्लेषे शसयोरैक्यात् शुक्तीनां शुक्तिसंबन्धिनीनां मुक्तानां मुक्ताफलानाम् । एतावता भद्रगजवंशानां निषेधः । आवली माला प्रान्तनिबद्धा धोरणी तया शालमाना दीप्यमाना ॥
महीमण्डलान्तः किमाविर्भवन्तं पुनः शासनस्योदयं श्रीजिनेन्दोः । अशेषावनीशासितुः शासनं तन्निशम्येत्यसौ चिन्तयामास चित्ते॥७६॥
असौ हीरविजयसूरिः अशेषावनीशासितुः समस्तक्षितिपालपालयितुरकब्बरस्य तत्वस्याकारणलक्षणं शासनमादेशं निशम्याकर्ण्य इत्यमुना प्रकारेणाने वक्ष्यमाणं चित्ते खमनसि चिन्तयामास विचारयति स्म । उत्प्रेक्ष्यते-तच्छासनं पुनरस्मिन्वर्तमाने कलिकालेऽपि महीमण्डलान्तः पृथिवीपीठमध्ये आविर्भवन्तं प्रकटं जायमानं श्रीजिनेन्दोर्महावीरस्य भगवतः शासनस्योदयमभ्युद्गममिव ॥
अयं हन्ति दावाग्निवद्वन्यजन्तून्प्रचण्डाशयो दण्डभृद्वद्यदास्ते । क्षितौ स्वं निधानं धनीवावनीन्दोस्तदेतस्य चित्ते कृपां निक्षिपामि।।७७॥
यत्कारणादयमकब्बरो मुद्गलपातिसाहिः दवाग्निवद्दावानल इव वने भवान् वन्यान् • काननोत्पन्नान् जन्तून् शशशंबरवराहहरिणादिसत्त्वान् हन्ति निपातयति खतन्त्राखेटकक्रीडावशंवदतया व्यापादयति । पुनर्यत्कारणादयं हमाऊंनन्दनः दण्डभृद्वद्यम इव । प्रचण्डो रोद्रो निर्दय आशयश्चित्तमभिप्रायः परिणामो वा यस्य तादृश आस्ते । तत्कारणादेतस्यावनीन्दोरकब्बरसाहेश्चित्तेऽन्तःकरणे कृपां दयां विश्वसत्त्वोपरि करुणां निक्षिपामि स्थापयामि । क इव । धनीव । यथा धनवान् पुमान् खमात्मीयं निधानं सुवर्णरूपकमणिमौक्तिकपूर्णकुम्भमञ्जूषाकटाहादिकं निधिं क्षिती वसुधाविषये निक्षिपति न्यासीकरोति ॥
दधानेन धा धुरं किं क्षितीन्द्रः कृतः संमुखीनः स केनापि धर्मे । फलाभ्युद्गमे विश्वलोकंपृणेन प्रसूनव्रजेनेव विस्मेरशाखी ॥ ७८ ॥
धो धर्मसंबन्धिनी धुरं धुर्वी दधानेन विभ्रता। धर्मधुरंधरेणेत्यर्थः । केनापि सत्त. मेन स क्षितीन्द्रः पातिसाहिः धर्मे जैनधर्मविषये संमुखीनोऽभिमुखः कृतः विहितः । केनेव । प्रसूनव्रजेनेव । यथा विश्वलोकंपृणेन समस्तजगजनानन्ददायिना कुसुमप्रकरण विस्मेरशाखी विनिद्रद्रुमः फलानां खजातियोग्यानां सस्यानामभ्युद्गमे प्रादुर्भावे संमुखः