________________
५०८
काव्यमाला ।
क्रियते । यतः प्रायः कुसुमेभ्य एव फलान्याविर्भवन्ति । यदुक्तम् - 'अहो अमेघजा वृष्टिरहो अकुसुमजं फलम् । अहो पुराकृतं पुण्यं यद्दृष्टो नाथलोचनैः ॥' इति जिनस्तुतौ ॥ किमाविर्बभूवे स्वभावेन धर्मे धिया शांभवे काश्यपीशासितुर्वा । यदन्तर्मदीयागमं लिप्सतेऽसौ विलासीव पुंस्कोकिलः पुष्पकालम् ७९
अथ वा काश्यपीशासितुर्भूपालस्य धिया बुद्धया स्वभावेन सहजेनैव शांभदे जै । 'शंभुः स्वयंभूर्भगवान् जगत्प्रभुस्तीर्थैकरः' इति हैम्याम् । धर्मे किमिति वितकें प्रश्नं वा । आविर्बभूवे प्रकटीभूतम् । यद्यस्मात्कारणादसौ नृपः अन्तचित्तमध्ये मदीयागमं ममागमनं लिप्सते कामयते वाञ्छति । क इव । पुंस्कोकिल इव । यथा पुमान्कोकिलः पुष्पकालं वसन्तसमयं समीहते । किंभूतः । विलासी क्रीडालालसः । वसन्ते हि को किलानां मदोदयस्ततस्तत्रैव क्रीडासक्तिः ॥
अथो जल्पतस्तान्प्रति श्रीव्रतीन्दोः क्षितीन्दोर्दधानस्य निर्देशमन्तः । ध्वनिर्निर्बभौ ढौकितो वाहिनीनां धवेनेव गम्भीरिमश्रीजितेन ॥८०॥ अथो तच्छ्राद्धकथनानन्तरं तदुक्तिश्रवणादनु मनसि विमर्शानन्तरं वा तान् श्राद्धान्प्रति जल्पतः प्रतिवदतो मुनीन्दोहरगुरोर्ध्वनिः शब्दो निर्बभौ निःशेषतयां भाति स्म । 'अक्षबीजवलयेन निर्बभौ' इति रघुवंशे । किं कुर्वाणस्य । व्रतीन्दोः क्षितीन्दोर्मेदिनीचन्द्रस्य पातिसा हेर्निर्देशमा देशमन्तः स्वचित्तविषये । 'आज्ञा शिष्टिनिराङ्गनिभ्यो दशो नियोगशासने' इति हैम्याम् । दधानस्य बिभ्राणस्य । उत्प्रेक्ष्यते - गम्भीरिमश्रिया गाम्भीर्य लक्ष्म्या | 'गम्भी रिमगुरुगुरुम्' इति पाण्डवचरित्रे । जितेनाभिभूतेन वाहिनीनां नदीनाम् । सेनानामित्यप्यर्थ: । धवेन भर्त्रा खामिना वा सेनान्या समुद्रेणेव ढौकित उपदाकृत इव ॥
निनसोर्जिनाधीश कल्याणकोवमभूत्पूर्वमेवाशयः पूर्वदेशे ।
विहर्तुं ममान्मताम्भोजभृङ्गा यियासोरिवाशा विजेतुं नृपस्य ॥८१॥ हे अर्हन्मतं श्रीमजिनशासनं तदेवाम्भोजं विजृम्भमाणकमलं तत्र भृङ्गा भ्रमरा जिनशासनैकतानमानसाः हे श्राद्धाः पूर्वदेशे प्राचीमण्डले विहर्तु विहारं विधातुं पूर्व नृपाकारणश्रीमत्कथनेभ्यः प्रागेव ममाशयः परिणामः अभूद्वभूव । मम किं कर्तुमिच्छो: । जिनानां सामान्य केव लिनामधीशास्तीर्थनायकत्वादर्हन्तश्चतुर्विंशतितीर्थकृतस्तेषां जन्मदीक्षा केवलज्ञानमोक्षगमनप्रमुख कल्याणकानामुर्वी भूमिं निनंसोर्नन्तुमिच्छो: । कस्येव । नृपस्येव । यथा आशाश्चतस्रोऽपि दिशो विजेतुं स्वायत्तीकर्तुं यियासोर्गन्तुमिच्छो: नृपस्य चक्रिणो विजयिनो मण्डलीक भूपालस्य वा पूर्व पूर्वदेशे विहर्तु गन्तुमभिप्रायो भवति । विजयी राजा हि पूर्व पूर्वदिशि यातीति स्थितिः ॥
समागान्ममाह्वाननं भूमिभानोः पुनर्वप्पभट्टेरिवामस्य राज्ञः । दिनारम्भवन्मोहनिद्राशयालुं ततस्तत्र गत्वा तमुद्बोधयामि ॥ ८२ ॥