________________
काव्यमाला।
णागिरिगह्वरारण्यादौ व्याधवल्लुब्धक इव नैकान्मानातीतान् सत्त्वान् मृगादिप्राणिनः प्रणिनन् व्यापादयन् । पुनः किंभूतः । असत्त्वीकृताः बलरहिताः कृता धैर्यापनात् कातरा विहिता वा । 'सत्त्वं द्रव्ये गुणे वित्त व्यवसायस्वभावयोः । पिशादावात्मभावे च वले प्राणेषु जन्तुषु ॥' इत्यनेकार्थः । व्यवसायरहिता वा निर्मिताः अशेषाः समस्ता विद्वेषिणां वर्गाः पक्षा येन सः ॥
हिमोर्वीधरोर्वीव सिन्धोः सुराणां कृपाया उपादानमुक्तिस्त्वदीया . महत्त्वं विभोर्लप्स्यते चित्तवृत्तौ पयो मौक्तिकत्वं घनस्येव शुक्तौ ॥७३॥ हे प्रभो, त्वदीया श्रीमत्संबन्धिनी उक्तिर्वचनचातुरी संचितधर्मदेशना वाग्विलासो वा विभोः खामिनोऽकव्वरस्य चित्तवृत्तौ मनोविषये महत्त्वं प्रौढिमानं प्रतिष्टां लप्स्यते प्राप्स्यति । किमिव । पय इव । यथा घनस्य खातिनक्षत्रसंबन्धिजलधरस्य वृष्टिगुकं वारि शुक्तौ शुक्तिकायां विषये मौक्तिकत्वं मुक्ताफलभावं लभते । किंभूतम् । कृपाया जगजीवदयाया उपादानं मूलकारणम् । केव । हिमोर्वीधरोवीव । यथा हिमाचलवसुधा सुराणां देवानां सिन्धोर्नद्याः गङ्गायाः उपादानं, मौलं कारणम् । 'चुल्लहिमवत्पद्मद्रवादाविर्भवति भागीरथी' इति जिनमते । शवे तु 'हिमवतो. गङ्गा प्रभवति' इति भवेत् ॥
पयोदा इव प्रावृषेण्या नमन्तः प्रभोश्चक्रपाणेः पदं संस्पृशन्तः । निगद्येति वाचंयमेन्दोः पुरस्तान्न्यषेवन्त जोषं मुखे श्राद्धमुख्याः॥७॥
ते श्राद्धमुख्या अकमिपुरसक्तश्रावकपुङ्गवाः वाचंयमेन्दोः साधुसुधारुचेः सूरेः पुरस्तादित्यमुना प्रकारेण निगद्य कथयित्वा । विज्ञप्येत्यर्थः । मुखे निजानने जोषं तूष्णीभावं न्यषेवन्त सेवन्ते स्म । मौनं कृत्वा स्थिताः । किं कुर्वन्तः । नमन्तः प्रणमनप्रवीभवन्तः । पुनः किं कुर्वन्तः । संस्पृशन्तः अर्थान्मस्तकेन संघट्टयन्तः वन्दमानाः । किम् । पदं चरणम् । कस्य । प्रभोः सूरेः । किंभूतम् । चक्रं चक्रिण आयुधविशेष रथाङ्गं पाणी आकृत्या महापुरुषत्वेन हस्ते यस्य । के इव । पयोदा इव । यथा प्रावृषेण्या वर्षाकालसंबन्धिनो वारिवृष्टिविशिष्टमेघा नमन्ति समुन्नम्यायान्ति । जलमरपूर्णत्वाद्भमाबुपेत्य लगन्ति । तथा चक्रपाणेविष्णोः पदं गगनमण्डलं च स्पृशन्ति ॥ इति प्रभोः साहिसमीपे गमनार्थ श्राद्धानां विज्ञप्तिः ॥
तदीयां गिरं कर्णिकांवत्सुवर्णातितां सूक्तिमुक्तावलीशालमानाम् । विमुक्ताङ्गरागोऽपि भोगीव योगीश्वरः कर्णपूरीचकारेति चित्रम् ॥७॥ विमुक्तास्त्यक्ताः अङ्गस्य खशरीरस्य रागाः स्नानोद्वर्तनविलेपनभूषणधारणादयो येन तादृशोऽपि सन् । योगिनां यमनियमकरणप्राणायामप्रत्याहारधारणाध्यानसमाधिनामधेयानामष्टाङ्गयोगसाधकानां मनोवाकाययोगवतां वा साधूनामीश्वरो नायको राजा सूरिः भोगीव सांसारिकभोगभागिव तदीयां श्राद्धसंबन्धिनी गिरं विज्ञप्तिवाणी कर्णि