SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। किं वा अथ वा करवैः कुमुदैर्वा अथ वा चकोरैज्योत्स्नाप्रियः किं सितांशोश्चन्द्रस्य उपाकारि उपकृतम् । यद्यस्मात्कारणादेषः प्रत्यक्षः सितांशुरेतान्कैरवचकोरान् पृणति प्रीणयति। विकाशामृतज्योत्स्नापानेरिति शेषः । 'पृणत् प्रीणने' तुदादिर्धातुः । पुनश्चन्द्रि. काश्चन्द्रज्योत्स्नाः किं धरित्र्या भूमेः सगोत्राः सज्ञातयः सन्ति । यत्कारणादेताः कौमुद्यः तां वसुंधरां सुधावदताप्लावा इव । 'छोह' इति लोकप्रसिद्धाः सुधा इव शुचीकुर्वते धवलयन्ति । 'सुधावन्तो दृश्यन्ते अतः प्रचुराः प्रासादाः बहिश्च वारणेन्द्राः' इति चम्पूकथायाम् ॥ इत्युपकारकरणकथनम् ॥ न चैवं हृदा चिन्तनीयं शमीन्दो दधानोऽसिवत्स्वेन निस्त्रिंशभावम् । तमः श्वेतकान्तेरिख म्लेच्छमौलिः कदाचित्स मे मा विदध्याविरुद्धम् ॥६७॥ ___ शमः शान्तिः शत्रौ मित्रे च समभावो विद्यते येषां ते शमिनस्तेषां मध्ये इन्दुरति. शायिशान्तिरसभृङ्गार तत्संबोधनम् । त्वया हृदा मनसाप्येवममुना प्रकारेण न नैव चिन्तनीयं विचारणीयम् । एकवचनं तु भक्तिवशात् वीतरागस्तवजयतिहुअणप्रमुखादौ दृश्यते-'तवाङ्गे भृङ्गतां यान्ति नेत्राणि मुरयोषिताम्' इत्यादि । तथा 'तुं साम. यितुं मायवप्पतुंमित्तपियं कुरु' इत्यादि । यदेव असिवत्कराल इव स्वेनात्मना निस्त्रिंशभावं क्रूरखभावम् । 'करे नृशंसनिस्त्रिंशौ' इति हैम्याम् । पक्षे निस्त्रिंशतां चन्द्रहासताम् । 'करवालनिस्त्रिंशकृपाणखगाः' इत्यपि हैम्याम् । दधानो बिभ्राणः । म्लेच्छानां मुद्गलानां मध्ये मौलिः मुकुट: अकब्बरपातिसाहिः कदाचित्कस्मिन्नपि प्रश्नोत्तरीप्रतिवचनादिस. मये भवत्समीपं गतस्य मम विरुद्धं दुष्टमनार्यत्वं मा विदध्यान्मा कुर्यात् । क इव । तम इव । यथा सैंहीकेय: श्वेतकान्तेश्चन्द्रस्य कदाचित्पूर्णिमाप्रान्ते, एव नान्यदिनेषु, इति विरुद्धगिलनलक्षणं विरुद्धं विदधाति ॥ . अपि स्वापकर्तुर्जनस्योपकारं प्रकुर्वन्त्यसावौचिती सत्तमानाम् । कुठारं स्वशाखाविशेषांल्लुनानं यतो गन्धसारः सुगन्धीकरोति ॥ ६८॥ हे प्रभो, खस्यात्मनोऽपकर्तुविरोधं विधातुरपि जनस्य उपकारं शिष्टाचारतां दानमानभोजनादिकं प्रकर्षेण कुर्वन्ति । असावेषा पूर्वोत्तलक्षणा सत्तमानां महतामौचिती उचितकारिता योग्यता स्वभाव एव वर्तते रीतिरेवास्ति । यतः कारणात् गन्ध एव सारं यस्य फलपुष्पवर्जितत्वात् । 'यद्यपि चन्दनविटपी विधिना फलपुष्पवर्जितो वि. हितः' इत्युक्तत्वात् चन्दनद्रुमः खशाखाविशेषानिजशिखाग्राणि लुनानं छिन्दानमपि कुठारं परशुं सुगन्धीकरोति सुरभयति ॥ महात्माथ वा येन नीयेत तापं प्रयत्येत तेनैव तस्योपकर्तुम् । दहेद्यो निजं चूर्णयित्वा कृशानौ तमेव स्वयं धूपयेत्काकतुण्डः ॥६९॥ अथ वा इति स्मरणगर्भे पक्षान्तरे वा महात्मा सत्तमः येनानार्येण पुंसा तापं सं. तापं नीयेत प्राप्येत तेनैव महात्मना तस्यैव खोपतापकर्तुः पुरुषस्यैव उपकर्तुं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy