________________
११ सर्गः ]
हीरसौभाग्यम् ।
५०३
त्मव्यतिरिक्तानामुपकारपरायणाः स्युः । तदेव दर्शयति - कैश्चिद्भोगाङ्गरङ्गिभिः पुरुषैरागत्य प्रसूनानि कुसुमानि किमिति प्रश्न अभ्यर्थितानि ययूयमभ्येत्य अस्मान्खसौरभैः सुगन्धी कुरुतेति किं प्रार्थितानि । यत्कारणात् स्वैरात्मीयैः सौरभैः परिमलैः कृत्वा जनान् लोकानामोदयन्ति सुरभीकुर्वन्ति । 'आमोदो गन्धहर्षयोः' इत्यनेकार्थः ॥
1
कदाचिद्वसन्तस्य संदेशवाचोऽपि च प्रेषितां क्वापि किं कुञ्जलक्ष्म्या | मृगाक्षीमिवोत्कण्टकां मञ्जरीभिः प्रसूनैरयं हासयामास यत्ताम् ||३३|| अपि पुनरर्थे । अपि चापरार्थे च । कदाचित्कस्मिन्नपि समये क्वापि कुत्रापि स्थाने कुञ्जलक्ष्म्या वनश्रिया वसन्तस्य वसन्तसमय किं संदेशवाचः उदन्ताः प्रेषिताः प्रहिताः सन्ति । यत्कारणादयं वसन्तस्तामुद्यानेन्दिरां मृगाक्षीं स्वसारङ्गलोचनां प्रेयसीमिव प्रसूनैः स्मेरकुसुमैः कृत्वा हासयामास । कान्तोऽपि खकान्तां प्रसूनादिक्रीडाभिः हासयति । हास्यकलितामिव चकारेत्यर्थः । किंभूतां श्रियं कान्तां च । कलितानि सुरभिसमयस्मयमानामा - नपादेषु नवप्रकटीभवत्कुसुमकोर कैरुत्कण्टकां सरोमाञ्चकञ्चुकामुच्चै रोमाञ्चां च ॥ किमभ्यर्थ्यते केनचिच्चण्डरोचिर्यदुर्वीदिवौ भासयत्येष यद्वा । विपक्षानिवोद्वासयत्यन्धकारान्पुनर्योजयत्यङ्गनाभी रथाङ्गान् ॥ ६४ ॥ यद्वा अथ वा केनचिचक्रवाकादिना चण्डरोचिः सूर्यः किमभ्ययते । यत्कारणादेष चण्डरोचि: उवदिवी भूमीनभसी भासयति प्रकाशयति । पुनर्विपक्षान् शत्रून् इव अन्धकारांस्तमांसि । अन्धकारशब्दः पुंक्लीवलिङ्गयोः । ' नेत्रं व पवित्र पत्रसमरासीरान्धकारा-' इति लिङ्गानुशासने । उद्वासयति लोकमध्यान्निष्कासयति । पुनर्वि योगव्याकुलान् रथाङ्गांश्चक्रवाकानङ्गनाभिः खरथाङ्गीभिः स्त्रीभिः समं योजयति । संगमं कारयतीत्यर्थः ॥
अयाच्यन्त किं वाम्बुदाः केनचित्किं यदुर्वीधराणां व्यपोहन्ति तापम् । .जलैर्जीवयन्तीह बप्पीहवालान्स्वनादैश्च वैदूर्यमुद्भावयन्ति ॥ ६५ ॥
किं च पुनरर्थे । केनचित्पर्वतचातकादिना किमम्बुदा मेघा अयाच्यन्त प्रार्थिताः । यत्कारणादुधराणां पर्वतानां यद्वा उर्व्या धराणां शैलानां च । 'प्रावापर्वतभूधरधराः ' इति हैम्याम् । तथा 'धरः कूर्माधिपे गिरौ । कर्पासकूले' इत्यनेकार्थः । तापं निदाघदा व्यपोहन्ति निघ्नन्ति शमयन्ति । यदुक्तम्- 'धाराधरा एव धराधराणां निदाघ'दाघौघविघातदक्षा:' इति । पुनरिह जगति बप्पीहवालांश्चातककपोतान् जलैः स्वदृष्टिसलिलपानैः कृत्वा जीवयन्ति । पुनः खनादैर्निजगर्जारवैवैदूर्य विदूरपर्वये बालवायुजापरनामवैडूर्यरत्नशङ्काम् । जातावेकवचनम् । उद्भावयन्ति त्रकटयन्ति । मेघगर्जितैर्हि विदूरशैले वैदूर्यंशलाकाः प्रादुर्भवन्तीति कविसमयः ॥ उपाकारि किं कैरवैर्वा चकोरैर्यदेतान्सितांशुः पृणत्येष किं वा । सगोत्राः पुनश्चन्द्रिकाः किं धरित्र्याः शुचीकुर्वते तां यदेताः सुधावत् ६६