SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः:] हीरसौभाग्यम् । ४९७ प्रायनिवेदकवार्ता वहन्दधत् एष मत्करकिसलयवर्ती लेखवत् देव इव लेखः स्फुरन्मानं प्रेषितः प्रहितोऽस्ति । किं कुर्वन् । सह मुद्रया मुद्रणेन जनुषामधुरणेन वर्तते यः । मुद्रायुक्त इत्यर्थः । समुद्रः पयोधिरपि वारिपूराज्जलप्लवाद्भीतिं भयं दधत् धारयन् । पुनः किं कुर्वन् । विशुद्ध धवलोsपि कार्ण्य मषिवर्णश्यामिकां अन्तः बिभ्रत्कलयन् ॥ अनुन्नीतसंप्राप्तमद्भुत्यवर्णैर्निजालोकनाविष्कृतातङ्कसगैः । भविष्यत्यमुष्य व्ययो यत्समाधेः सरस्या इवाकालमेघैः कजानाम् ||४३|| त्रियामाविरामा इवाम्भोजबन्धुं व्रतीन्द्रं ततो यूयमेवानयध्वम् । निगद्येति खानेन संमान्य ते स्वान्विसृष्टा निवासान्ययुः प्रीतिमन्तः ॥ ४४ ॥ साहिवखानेन नाम्ना इति पूर्वोक्तं निगद्य कथयित्वा संमान्य संमानं च प्रदाय विसृष्टाः पश्चात्प्रेषिताः श्राद्धाः प्रीतिमन्तो हृष्टमानसाः सन्तः स्वान्निवासान् ययुर्जग्मुः । निजनिकेतन स्थानेषु गता इत्यर्थः । इति किम् । हे हीरसूरिभक्तजनाः, ततः कारणात् यूयमेव भवन्त एव तीन्द्रं सूरिमानयध्वम् । अत्र गन्धारनगरादकमिपुरे आकारयत । इव । त्रियामाविरामा इव । यथा विभावरीणां विरामा दिवसावसानसमया अम्भोजबन्धुं भास्करमत्र जीवलोके रोदःकंदरे वा आनयन्ति । ततः कुतः । यतः कारणान्निजानामात्मनामालोकनान्मुद्गलजातित्वेन भीमाशयत्वाद्दर्शनादेवाविष्कृतः प्रगटभावं प्रापितः आतङ्को भयं तस्य सर्गः सृष्टिर्येस्तादृशैरनुन्नीतैरवितर्कितैरज्ञातपूर्वैः संप्राप्तैरर्थात् हीरसूरिसमीपे समागतैर्मद्धृत्यवर्णैर्मम सेवकगणैरमुष्य हीरविजयसूरेः समाधेर्ध्यानस्य चित्तस्वास्थ्यस्य वा व्ययो व्यपगमः क्षयो भविष्यति । केषामिव । कजानामिव । यथा सरस्या महत्सरसः कजस्य कमलस्य । जातिवाचित्वादेकवचनम् । सर्वजातीयाम्भोजवअकालमेघैरसमयसंप्राप्तपयोधरैर्व्ययो भवति । ' यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥' इति रघुवंशे ॥ इति राजनगरश्राद्धानां खानदत्तहीरविजयसूरीश्वराकारणादेशः ॥ विचिन्त्यात्मचित्ते तदादेशमर्हन्मतस्योदयखर्दुमस्येव बीजम् । . तपापक्षमुख्याखिलश्राद्धलोका मिलित्वा मिथः प्रोचुरानन्दसान्द्राः ॥४५ ॥ - तपा इति नाम यस्य तादृग्गणस्य गच्छस्य पक्षः स्वीकारो येषां ते तपापक्षाः । 'अपक्षपातेन परीक्ष्यमाणः पक्षः' इत्यनेकार्थवृत्तौ । तेषु मुख्याः श्रेष्ठा: अखिलाः समग्रा: श्राद्धलोकाः श्रावकजना मिलित्वा एकत्र संभूय मिथः परस्परमानन्देन सान्द्रा व्याप्ताः प्रोचुः कथयन्ति स्म । किं कृत्वा । आत्मचित्ते निजमनसि तदादेशं साहिबखानाज्ञामन्मतस्य जिनशासनस्य य उदयः स एव खद्रुमः कल्पवृक्षः तस्य बीजं निदानमुत्पत्तिकारणमिति विचिन्त्यालोच्य ॥ इतः शासनं शासितुर्नः प्रजानामितो वन्दनीया विभोर्वन्द्यपादाः I इदं सौरभारोपणं जातरूपे त्रिरेखे पयःपूर्तिरप्याविरासीत् ॥ ४६ ॥ ६३.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy