________________
४९८
काव्यमाला ।
इतोऽस्मिन्पार्श्वे एकपक्षे प्रजानां शासितुरकमिपुराधिपतिसाहिबखानस्य शासनमादेशः । तथा इतोऽपरस्मिन्पार्श्वे विभोः सूरीन्दोवेन्द्या स्त्रिभुवनजननमस्करणीया: पादाचरणा वन्दनीयाः प्रणतिगोचरीकार्याः । तर्हि इदमेतजातरूपे सुवर्ण सौरभस्य सुगन्धताया आरोपणं कर्तव्यमस्ति । पुनस्त्रिरेखे शङ्ख पयसां दुग्धानां पूर्तिः पूरणमाविरासीत्प्रकटीभूतम् ॥
हृदन्तर्मुनीन्दोर्निनंसा पुरास्ते नियुक्ता पुनः खामिनेदं तदासीत् । प्रतिस्थानमालोकमानान्मनुष्यान्समेत्य स्वयं पद्मवासा वृणीते ॥ ४७ ॥ पुरा पूर्व हृदन्तरस्मिंश्चित्तमध्ये मुनीन्दोः सूरीन्द्रस्य निनंसा नन्तुमिच्छा आस्ते विद्यते । पुनस्तदुपरि स्वामिना खानेन नियुक्ता आदिष्टाः । तर्हि इदमासीदेतज्जातम् । किं प्रतिस्थानं प्रति आलोकमानान्पश्यतो मनुष्यान् जनान् स्वयमात्मनैव समेत्यागल्य पद्मवासाः कमलालया लक्ष्मीर्वृणीते वरयति ॥
अलं मन्दवद्वो विलम्बैः सगर्भास्त्वरध्वं व्रजामः प्रभोः संनिधाने । विमृश्येति सर्वेऽभिनिर्याणयोग्यं मुहूर्त मिथो निर्णयन्ति स्म पौराः ॥४८॥
सर्वे पौरा नागरिकाः राजनगर श्रावकाः इत्यमुना प्रकारेण विमृश्य विचारयित्वा अभिनिर्याणस्य प्रस्थानस्य योग्यमुचितं मुहूर्ते शुभवासरवेलां निर्णयन्ति स्म । द्विजज्यौतिषिकैर्निर्धारयन्ति स्म । इति किम् । हे सगर्भा भ्रातरः, वो युष्माकं मन्दवकि यासु कुण्ठाः सालसा वा तुन्दपरिमृजा वा मूर्खा वा तद्वत्तेषामिव विलम्बैः प्रतीक्षणैरलं पूर्यतां त्वरध्वं शीघ्रीभवत । प्रभोर्गुरोः संनिधाने समीपे गन्धारवन्दिरे व्रजामो यामः ॥ इत्यकमिपुरश्राद्धानां गुरुवन्दनालोचः ॥
अथारुह्य वाह्यानि ते श्राद्धलोका: पुरे भूमिशृङ्गारगन्धारसंज्ञे । प्रभुं वन्दितुं प्रीतिमन्तः प्रचेलुजिनं स्वर्गिवर्गा इव क्षोणिपीठे ॥ ४९ ॥
अथ मुहूर्तवासरागमनानन्तरं भूमेः क्षोणीलक्ष्म्याः शृङ्गारे मण्डनायमाने भूषाभूते गन्धार इति संज्ञा नाम यस्य तादृशे पुरे प्रभुं हीरविजयसूरिं वन्दितुं नमस्कर्तुं ते पूर्वप्रोक्ताः श्राद्धलोकाः श्रावकजनाः प्रचेलुः प्रतिष्ठन्ते स्म । किं कृत्वा । वायानि रथादीनि वाहनान्यारुह्याध्यास्य । किंभूताः । प्रीतिमन्तः प्रमोदमेदुराः । क इव । स्वगिंवर्गा इव । यथा क्षोणिपीठे भूमीमण्डले जिनं तीर्थनायकं नेतुं नमस्थितुं सिंहगजाश्व फणिगरुडादीनि स्वस्खायनान्यधिरुह्य देवाः प्रचलन्ति व्रजन्ति ॥
शिवश्रीविवाहोत्सुकीभूतचित्तैर्यथा यात्रिकैः सिद्धधात्रीधरस्य । प्रयाणैरभूयःप्रमाणैरमीभिः समीपे शमीन्दोः समागम्यते स्म ॥ ९० ॥ अभिः श्राद्धैर्न विद्यते भूयो बहु प्रमाणं येषां तादृशैः प्रयाणैर्निशावासादिलक्षणैः प्रतिदिनप्रचलनैः शमीन्दोः सूरेः समीपे पार्श्व गम्यते स्म समागतम् । यथा यात्रि