SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ४९६ काव्यमाला। शासनीयाः पालायतव्याः स्मः। पुनस्वं सेवनीय: सेवितव्यः सेवितुं योग्योऽसि, पुनर्वयं सेवकाः सेवाकारकाः म्म । पुनस्त्वं नियोक्का कार्य प्रयोजकोऽति, पुनर्वयं नियोज्याः कर्तव्ये निर्देयाः स्म । तत्तम्मात्कारगादस्माकं कृत्यं कार्यमादिश्यतां प्रसा. द्यताम् ॥ इति श्राद्धानामाकरणं तत्प्रश्नश्च ।। स ऊचेऽथ वाचेति पीयूषवर्ष किरन्कैतवाद्दन्तनिर्यद्दयुतीनाम् । चतुर्दिक्षु चण्डांशुवद्यत्प्रतापो भ्रमत्यधिनेमीचरोऽकञ्बरोऽस्ति ॥३९॥ अथ श्राद्धजनप्रश्नानन्तरं स साहिबखानो वाचा वाण्या कृत्वा इत्यग्रे वक्ष्यमाणमूचे बभाषे । किं कुर्वन् । दन्तेभ्यो दशनेभ्यो निर्यान्तीनां निःसरन्तीनां गुतीनां कान्तीनां कैतवात्कपटात्पीयूषवर्षममृतवृष्टिं किरन्विस्तारयन्निवेतीयं गर्भितोत्प्रेक्षा । किमूचे तदे. वाह-हे जनाः, अकबरनामा अधिनेमीचरः आपाथो नायकपर्यन्तपृथ्वीनाथोऽस्ति । यत्प्रतापश्चतुर्दिनु पूर्वापादक्षिणोत्तरालक्षणासु हरित्सु भ्रमति पर्यटति । किंवत् । चण्डांशुवत् । यथा भाखांश्चतुरासामुपरि भ्रमति ॥ यया ज्योत्स्नयेवावदातीक्रियन्ते दिशः सस्मिता वा वकान्तैः क्रियन्ते । सखीभिर्विशिष्येव गोशीर्षचन्द्रद्रवैः पत्रभ.कतालंक्रियन्ते ॥ ४० ॥ कदाचिजगत्कर्णपूरायमाणां गुणश्रेणिमाकर्ण्य तां हीरमूरेः । तमाह्वातुकामेन तेनात्मदूताविह प्रेषितौ दर्शनोत्कण्ठितेन ।। ४१ ॥ हे जनाः, तेनाकबरपातिमाहिना इहाहन्मदाबादे मत्याचे वा आत्मदूती स्वसंदेश. हारको प्रेषितो प्रहितो स्तः । तेन किं कर्तुकामेन । तं जगत्प्रसिद्गुपयामं होरावजयसूरिमावानुमाकारयितुं कामोऽभिलाषो यस्य तादृशेन । अत एव पुनः किंभूतेन । दर्शनोत्कण्ठितेन गुरोरालोकनौत्सुक्यभाजा। किं कृत्वा । कदाचित्कस्मिन्नपि समये जगतां भुवनानां को श्रवणो पूर्यते अनयेति कर्णपूरा । अथवा कर्णपूरी कर्णाभरणे तद्वदाचरितां यावजगजनाहादिनी हीरसूरेर्गुणानां श्रेणी धोरणीमाकण्यं श्रुत्वा । तां काम् । यया गुरुगुणश्रेण्या ज्योल्नया चन्द्रचन्द्रिकयेव दिश: सर्वा अन्याशा अवदातीक्रियन्ते श्रेता विधीयन्ते। अथ वा स्वकान्तरात्मात्मभवृभिर्दिशो निज निजदिगदना नमलीला. वशात्सस्मिताः सहासाः क्रियन्ते मृज्यन्ते । वा अथ वा । सखीभिवयसीभिर्मण्डनकारिकाभिर्वा गोशीर्षकाणां चन्दनानां चन्द्राणां कराणां च द्रवः पईः कृत्वा यत्र वल्लीनिः । 'देव भवििरवधूवदने वने च नागरुचिताश्चन्दनपत्रभहाः' इति चम्पूकथायाम् । उत्प्रेक्ष्यते-विशिष्य विशेषप्रकारणालंक्रियन्ते भूष्यन्ते इव ॥ युग्मम् ।। समुद्रोऽपि भीतिं दधद्वारिपूराद्विशुद्धोऽपि कार्य पुनबिंभ्रदन्तः । भुवो वासवेनैष लेखो विशेषप्रवृत्ति वहल्लेखवत्प्रेषितश्च ॥ १२ ॥ हे जनाः, च पुनर्भुवो वासवेनाकब्बरेण पृथ्वीपुरंदरेण विशेषप्रवृत्ति स्वहृदयाभि
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy