SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ११ सर्गः ] हीरसौभाग्यम् । कोरा ज्योत्स्नाप्रियाः आकार्यन्ते स्म । अपि पुनः ते भृत्याः क्रमात् खखामिनिदेशश्रवणप्रणामकरणपरिपाच्या तेषामकमि पुरतपापक्षश्राद्धानां संनिकर्षे समीपं गताः प्राप्ताः सन्तः प्रभोः स्वस्वामिनः सर्वे निदेशमाज्ञां निर्दिशन्ति स्म निवेदयन्ति स्म कथयन्ति स्म ॥ समानीयमाना अमीभिर्जनास्तेऽप्यराजन्त मध्येपुरं दानशौण्डाः । महामात्रवृन्दैर्द्विपेन्द्रा इवोर्वीपतेर्मन्दिरं दानधारां किरन्तः ॥ ३५ ॥ ४९५ अमीभिः साहिबखानभृत्यैर्मव्येपुर मकमिपुरस्य मध्ये । 'पारे मध्ये षष्ट्या वा समस्यते' । समासश्चाव्ययीभावः । 'गङ्गायाः पारे पारेगङ्गम् । गङ्गायामध्ये मध्येगङ्गम्' इति प्रक्रियाकौमुद्याम् । तद्वन्मध्येपुरं सम्यक् संमाननादिप्रकारेणास्ते श्राद्धा अपि व्यराजन्त शुशुभिरे ! किंभूताः । दानशौण्डा : बहुद्रव्यप्रदायिनः विश्राणनेन विख्याता वा । 'शौण्डा विख्यातमत्तयोः' इत्यनेकार्थः । के इव । द्विपेन्द्रा इव । यथा महामात्राणां हस्तिपकानां 'माहत' इति प्रसिद्धानां वृन्दैराधोरणगणैः उवपते राज्ञो मन्दिरे नीयमाना गज़राजा विराजन्ते । किं कुर्वन्तः । दानधारां मदवारिवृष्टिं कुर्वन्तः सृजन्तः क्षरन्तः ॥ जना जैनपक्षैकदक्षाः क्षितिक्षित्समाजं विशन्ति स्म संभूय सर्वे । ततस्तेऽप्यनयपदापूर्ण पाणीन्वबन्धूनिवास्थापयत्तानुपान्ते ॥ ३६ ॥ सर्वे समस्ता जनाः जिनानां वीतरागाणामयं जैनः स चासौ पक्षश्च । जिनशासनत्यर्थः । तत्रैकतया अद्वितीयत्वेन दक्षा अतिनिपुणा जनाः श्राद्धाः संभूय एकत्र मिलित्वा क्षितिक्षितः खानस्य समाजं सभां विशन्ति स्म । सभामध्ये ययुरित्यर्थः । ततो जनागमनानन्तरं सोऽपि खान: अनर्घ्याभिः प्रशस्याभिरुपदाभि: प्राभृतैः पूर्णाः भृताः पाणयो हस्ता येषां तान् जनान् खबन्धूनात्मखजनानिव उपान्ते स्वसमीपे अस्थापयदुपवेशयति स्म ॥ अमी मूलकर्मेव तचित्तवृत्तेः पुरः प्राभृतं भूमिभर्तुर्विमुच्य । . अलीकातिथीभूतहस्तेऽरविन्दाः प्रमोदप्रगल्भाः स्म भाषन्त इत्थम् ॥३७॥ अलीके ललाटे अतिथीभूतानि प्रात्रुणानि जातानि हस्ता एवारविन्दानि पद्मानि येषां कृताञ्जलय इत्यर्थः। अमी श्राद्धाः प्रमोदेन हर्षेण प्रगल्भाः सोत्साहा इत्थमग्रे वक्ष्यमाणमभाषन्त प्रोचुः । किं कृत्वा । भूमिभर्तुर्नृपस्य पुरोऽग्रे प्राभृतं ढौकितकं विमुच्य ढौकयित्वा । उत्प्रेक्ष्यते - तस्य साहिबखानस्य चित्तवृत्तेर्मनोव्यापारस्य मूलकर्म कार्मणमिव ॥ नृणां शासिता त्वं वयं शासनीयाः वयं सेवकास्त्वं पुनः सेवनीयः । नियोज्या वयं त्वं नियोक्तासि यस्मात्तदादिश्यतां कृत्यमस्माकमीश ३८ हे ईश, त्वं यस्मात्कारणात् त्वं नृणां नराणां शासिता पालयिता असि, पुनर्वर्य
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy