________________
११ सर्गः ]
हीरसौभाग्यम् ।
ततः क्षोणिशक्राशयं तौ बुभुत्सू स्म युङ्कः स्ववक्राम्बुजे वाग्विलासैः । सरित्प्रेयसश्चेतसस्तादृशानां पुनः केन येन प्रतीयेत पारः || ७ || ततः साहिना दृष्टिसंभावनानन्तरं तौ दूतौ वाग्विलासैर्वचनवैचित्रीभिः स्ववाम्बुजे निजवदनकमले युक्तः योजयतः स्मेत्यर्थः । किं कर्तुमिच्छू । बुभुत्सू बोद्धुमिच्छ्र ज्ञातुं काङ्क्षन्तौ । कम् । क्षोणिशकस्य साहेराशयं मनोभिप्रायम् । येन कारणेन सरित्प्रेयसः समुद्रस्य पुनस्तादृशानां गम्भीराशयानां महात्मनां चेतसो हृदयस्य च पारः परवीरं पूर्णाशयभावः केन पुंसा प्रतीयेत ज्ञायते । अपि तु न केनाप्यवबुध्यते ॥
हरिर्वा कृतान्तः प्रचेताः कुबेरः किमु त्वद्दिगम्भोजदृग्रक्षकेषु । यदेतेषु केनापि कृत्यं भवेत्तत्प्रगल्भीभवावस्तदाह्वाविधासु ॥ ८ ॥
१८७
हे ईश, हरिरिन्द्रः, तथा कृतान्तो यमः, तथा प्रचेता वरुणः, तथा कुबेरो वैश्रवणः, एतेषु चतुर्षु मध्ये चेद्यदि ते तव एकेनाप्यन्यतमेन कृत्यं कार्ये भवेत्स्यात् । उत्प्रेक्ष्यतेत्वद्दिगम्भोजदृशां तव पूर्वादक्षिणा पश्चिमोत्तरालक्षणानां नाम्नां दिङ्मृगाक्षीणां रक्षकेषु किमु रक्षाकार केष्विव सौविद्द्लेष्विव । यतो हरिर्वानरः, कृतान्तः कालः अथवा कृतस्योपकारस्यान्तोऽवसानं यस्मिन् स कृतं किमपि न वेत्ति कृतघ्नः, तथा प्रचेताः सुमना राजपत्नी जननीं मनुते । तथा कुत्सितशरीरः, एवंविधानामवरोधरक्षणं युक्तमेवेति । त्वदन्तःपुररक्षकेषु तर्हि तदानाविधासु तेषामिन्द्रादीनां चतुर्णी लोकपालानां प्राकारप्रकारेषु प्रगल्भीभवाव उद्यमं कुर्वः । तमाकारयाव इत्यर्थः ॥ त्रिलोक्या इवाधीशितुर्भूमिभर्तर्भवत्तो भवेत्कोऽपि वैमुख्यभाग्यः । पुरस्तादुदेष्यन्त्यजानन्वनाङ्केष्वनन्तानि दुःखानि खानिः स्मयानाम् ||९||
हे भूमिभर्तः हे धरणीरमणीरमण, यः कोऽपि विपक्षादिको भवत्तस्त्वत्तः सकाशात् वैमुख्यभाक् पराङ्मुखताभाजी भवेत् । कस्मादिव । त्रिलोक्यास्त्रिभुवनस्य अधीशितुः स्वामिनः परमेश्वरादिव । यथा कोऽपि पापात्मा परमेष्ठिनः पराङ्मुखो भवति । किं कुर्वन् । अजानन् अविदन् । कानि । वनाङ्केषु काननानां क्रोडेषु मध्येषु पुरस्तादप्रे उदेष्यन्ति प्रकटीभविष्यन्ति उत्पत्स्यमानानि अनन्तान्यपाराणि न विद्यतेऽन्तोऽवसानं येषां तादृशानि दुःखानि । यः किंभूतः । स्मयानामहंकाराणां खानिराकरः स्थानम् । अथ च भगवतः पराङ्मुखोऽपि पाप्मा अनादिकालानामात्याकीनं शैवशासनमिति गर्वा - वेशवशंवदो दुर्बुद्धिर्वनाङ्केषु सूक्ष्मवदरसाधारणप्रत्येकवनस्पतिकायादिमध्येषु पुरस्ताद्भाविसंसारपरम्परानु प्रादुर्भवष्यन्ति संपत्स्यमानानि अनन्तानि अनन्त कालवेयानि दुःखानि छेदनभेदनाद्यनेकवेदना न जानीते । मिथ्यामतमूढीभूतत्वात्र वेत्तीत्यर्थः ॥ असंख्येषु संख्येषु विद्वेषिलक्षाविलक्ष्यीकृतेर्बिभ्रदुत्सेकभावम् । विधित्सुर्मृधं भूधवौद्धत्यभाग्यस्त्वया पूर्वदेवेशवत्केशवेन ॥ १० ॥