________________
१८८
काव्यमाला। हे भूधव पृथिवीप्रियतम, औद्धत्यवान् उद्धततया उन्मत्तत्वेन वा युक्तः कोऽपि नृपः त्वया भवता साहिना समं मृधं युद्धं विवित्सुः कर्तुमिच्छुर्भवेत् । किंवत् । पूर्वदेवे. शवत् । यथा दानवेन्द्रः केशवेन नारायणेन साध संग्राम विधातुमिच्छति । 'असुरा दितिदनुजाः पातालोकः सुरारयः । पूर्वदेवाः शुक्रशिष्याः' इति हैम्याम् । यः किंभूतः । असंख्येषु संख्यातीतेषु अनेकेषु संख्येषु संग्रामेषु विद्वेषिणां वैरिणां लक्षाणां शतसहस्राणां विलक्ष्यीकृतेरभिभवनादुत्सेकभावं गर्वावेशवशंवदताम् । 'उपदा विविशुः . शश्वनोत्सेकाः कोसलेश्वरम्' इति रघौ । विभ्रद्दधान ॥
भवच्छिद्रदर्शी भवेद्वा यदन्यः पुरोभागिवद्भागधेयैर्विमुक्तः । प्रणीयानुकूलीभवन्मानसं तं पदाजे प्रभो ङ्गभूयं नयावः ॥ ११॥ । हे प्रभो खामिन् , च पुनर्यद्यदि अन्यः परः कोऽपि वैभववान् पुरोभागिवद्भुवनज. नदोषदर्शनैकतानदृष्टिरिव भवतस्तव छिद्राणि स्वेन पराभवितुमिच्छया सासूयत्वेन देशादिजिघृक्षया वा अपगुणान्दोषान्पश्यतीत्येवंशीलो भवच्छिद्रदर्शी भवेत्रातः स्यात् किं भागधेयैः सुकृतैर्विमुक्तो भाविराज्यादिभ्रंशात्पुण्यैस्त्यक्तः । तं पूर्वोकं सकलमप्य. नुकूलीभवत्तव सेवाहेवाकिभावं भवन्मानसं मनो यस्य तादृशं प्रणीय कृत्वा प्रभोः खामिनः पदाब्जे चरणकमलाङ्के भृङ्गभूयं भ्रमरीभावं नयावः प्रापयाधः ॥ त्रिमिविशेषकम् ॥ तपस्वी सभस्मा श्मशानाश्रयो वा त्रिदण्डी जटी वा मठी रुण्डमाली । व्रती वाडवो धूमपः सोमपो वा भवेद्येन ते कृत्यमादिश्यतां सः ॥१२॥
हे साहे, तपस्वी तापसः, सह भस्मना भसितोलितेन वर्तते यः स सभस्मा। योगी. त्यर्थः । श्मशाने प्रेतवने आश्रयो यस्य स श्मशानवासी चेटकादिकुमन्त्रसाधकः । तथा त्रिदण्डी त्रयो दण्डा यस्य स कापिलः त्रिशूली वा । तथा जटा भस्मावगुण्ठितके. शकलापः अस्यास्तीति जटी बृहजटाधारकः । तथा मठो निवसनस्थानं छात्रपठनशाला वा अस्यास्तीति मठी मठवासी। तथा रुण्डानां विकचनरकपालानां माला हृदये हारोऽस्यास्तीति कपाली। तथा व्रती मौननमत्वादिनियमवान् सांन्यासिको वा यती वा । तथा वाडदो ब्राह्मणः । धूमं पिबति मन्त्रादिसाधनकृते कष्टक्रियार्थे वा ऊर्ध्वपा. दा:शिरा द्रुमशिखासु खशरीरलम्बनपूर्व धूमपानकर्ता । सोमपः अमृतवल्लीरसपायी वा, एतेषु मध्ये येन केनापि ते तव कृत्यं कार्य स्यात्स आदिश्यतां प्रसाद्यतां कथ्य. ताम् ॥ इति दूतवचनानि । निगद्येति विश्रान्तयोरेतयोस्तां गिरं श्रोत्रवर्माध्वनीनां प्रणीय । अगृह्यन्त वाचः पयोराशिकाञ्चीशचीशेन शके सुधाया वयस्यः ॥ १३ ॥
पयोराशिः समुद्रः काञ्ची मेखला यस्यास्तस्या भूमेः शचीशेन पुरंदरेग वाचो वाण्यः अगृह्यन्त गृहीताः । बभाषे इत्यर्थः। तत्र वाक्षु अहमेवं शङ्क वितर्कयामि