________________
४८६
काव्यमाला ।
यामिन्यां कालिका सर्वान् सत्त्वान्कुक्षिगतान्करिष्यति तद्वदाचरितानामशेषीकृताशेषद्विषः संख्यातिगा वीराः सुभटा यस्य तम् । इति किम् । यदस्माकं स्वामी द्युलोकाद्देवभवनात्स्वर्गात्स्वर्गिवर्गेर्देववृन्दैः समं विपक्षान्वैरिण एव तद्रूपान्वा क्ष्माभृतः क्षोणीपालान्पर्वतांश्च हन्तुं व्यापादयितुमुच्छेत्तुं क्षितौ पृथिव्यामेत आगतः आखण्डलः शक्र इवास्ते ॥
हतारातिसारङ्गदृकज्जलाङ्कस्रवद्वाष्पभानूद्वहावारिपूरे ।
अभिष्टौति लीलामरालायमानं यशो यत्प्रभोर्वैरभाजां समाजे ॥ ४ ॥
यहूतयुग्मं वैरभाजां विद्वेषिणां समाजे सभायां हताः खखामिना संप्रामाणे व्यापादिता ये अरातयः विपक्षक्षोणीन्द्राः तेषां सारङ्गदृशो मृगलोचनाः प्रियतमास्तासां erभ्यो नयनेभ्यः कलमञ्जनमङ्के कोडे अर्थान्मध्ये मिश्रीभूतत्वाद्येषां तादृशाः स्रवन्तो गलन्तो निरन्तरनिष्पतन्तो बाप्पा अम्बु ( श्रु) धारास्त एव भानूद्रहा सूर्यसुता यमुना तस्या वारिपुरे पयः प्रवाहे लीलामरालायमानं क्रीडालसराजहंस इवाचरत् प्रभोः खामिनो यशः श्लोकमभिष्टौति वर्णयति ॥
वचोवैदुषीमेतदीयामधृष्यां निरूप्य प्रतीपैः क्षितीशैः प्रणेसे । यदुर्वीविभोरागमात्प्राग्गभस्तेरिवानूरुरोचिस्तमिश्रप्रसारैः ॥ १ ॥
एतदीयां दूतयुग्मसंबन्धिनीमधृष्यामनाकलनीयां प्रतिपक्षपक्षलक्षस्वान्तक्षोभकारिकां वचोवैदुषीं वचनचातुरीं निरूप्य प्रेक्ष्यार्थादवधार्य यदुवींविभोः यस्याकब्बर साहेरागमादभिषेणनैरागमात्प्राक् पूर्वमेव प्रतीपैर्विरोधिभिः क्षितीशैर्भूपालैः प्रणेशे प्रपलायितम् । कैरिव । तमिश्रप्रसारैरिव । यथा गभस्तेर्भानोः आगमादुदयात्पूर्वमनूरुरोचिः अरुणप्रभां विभाव्य । ध्वान्तविस्तारैः प्रणश्यते ॥ आदितश्चतुर्भिः कुलकम् ॥ इति दूतखभावः ॥
चिरं जीव नन्देति दूतौ निगद्याधिपं नेमतुर्मूर्ध्नि पाणी प्रणीय । पुनस्तौ सुधासाधिमानं दधत्या संभावयामास वाचेव दृष्ट्या ॥ ६ ॥
हे प्रभो, त्वं चिरं बहुकालं गलितावधिसमयं जीव मेरुमहीधरसमानमायुः परिपालय । तथा नन्द पुरंदरवत्परमसमृद्धिमान् भव । इत्यमुना प्रकारेण निगद्य आशीर्वचनं कथयित्वा । तथा मूर्ध्नि मस्तके पाणी स्वहस्तौ प्रणीय संयोज्य । शिरस्यञ्जलिं विधायेत्यर्थः । तौ दूतौ संदेशहारकौ अधिपं खामिनं नेमतुः प्रणमतः स्म । पुनः सोऽकब्बरसाहिः तौ - दूतौ प्रति सुघयेव पीयूषेनेव साधिमानं मधुरिमाणं शुभ्रमाणं च दधत्या धारयन्त्या । 'वयाहतः किं भरसाधिमभ्रमः' इति नैषधे | वाचेव वाण्येव दृष्टया दृशा विलोकनेन कृत्वा संभावयामास । प्रसन्नदृशा व्यलोकयदित्यर्थः ॥