SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ १० सर्गः हीरसौभाग्यम् । ४८३ ताडङ्का इव कर्णपूरपदवीमालम्बमाना पुन बिभ्राणा हृदये श्रियं त्रिजगतां मुक्ताकलापा इव । हर्षादुर्भुषिता वयं स्मृतिवशायेषां प्रियाणामिव क्षोणीभूषण भूषणैरिव गुणैस्तै ष्यते स प्रभुः ॥ १२६ ॥ हे क्षोणीभूषण मेदिनीमण्डलमण्डन, भूषणैर्मणीवर्णाभरणैरिव तैर्जगजनविख्यातैर्गुणैः कृत्वा स प्रभुः भूष्यते अलंक्रियते । ते के । ये गुणास्ताडकाः कुण्डला इव । कुण्डलशब्दः पुनपुंसकलिङ्गे । 'कमलं मलं तु शलशालकुण्डलाः' इति लिङ्गानुशासने । कौँ श्रवणौ पूरयन्तीति, कर्णो श्रवसी पूर्ये पूर्येते यैर्वा, तेषां पदवी पदमालम्बमानाः आश्रयन्तः सन्तीयध्याहारः । पुनर्ये गुणाः मुक्ताकलापा इव मौक्तिकहारा इव त्रिजगतां त्रिभुवनजनानां हृदये मनसि वक्षसि च श्रियं शोभा बिभ्राणाः सन्ति । पुन• थेषां प्रियाणामिष्टानामिव स्मृतिवशात्स्मरणयोगाद्वयं श्रीमत्सभ्या अपि हर्षाच्चेतःप्रसबताया वंशात्प्रमोदाद्वा उद्बुषिता रोमाश्चिताः स्मः ॥ पण्डा चित्रशिखण्डिनां तनुजवच्चेत्स्यादसाधारणी .. यस्यास्ये भुजगप्रभोरिव भवेज्जिह्वासहस्रं पुनः । .. यस्याप्यस्खलिता सुरेश्वरसरिद्वीचीव वाक्चातुरी संस्तोतुं प्रभवेन्न सोऽपि सुगुरोर्यावद्गुणान्भूमणे ॥ १२७ ॥ हे भूमणे क्षोणीमाणिक्य, सोऽपि पुमान् सुगुरोझैरसूरेर्यावतः समस्तान् । 'यावजनरञ्जनव्रती' इति नैषधे । 'समस्तलोकरागोत्पादने व्रतमस्यास्ति' इति तद्वृत्तौ । गुणान् संस्तोतुं सम्यक्तया सर्वप्रकारेण वर्णयितुं न प्रभवेन समर्थीभवेत् । स कः । यस्य पुंसः चित्रशिखण्डिनां सप्तर्षीणाम्। 'सप्तर्षयश्चित्रशिखण्डिनः' इति हैम्याम् । तनुजवनन्दस्येव बृहस्पतेरिव । 'विचित्रवाक्चित्रशिखण्डिनन्दनः' इति नैषधे । पण्डा तच्चानुगामिनी मतिश्चेद्यदि असाधारणी विश्वे कस्यापि सदृशी न सर्वेभ्यो वाग्देवतावाचस्पतिप्रमुखम. खभुग्दानवमानवेभ्योऽभ्यधिका । 'साधारणी गिरमुषर्बुधनैषधाभ्याम्' इति नैषधे । 'साधारणात्खार्थे भो विकल्पो डीपोऽपि विकल्पोक्तिः । साधारणी साधारणा' इति प्रक्रियाकौमुद्याम् । अपि पुनर्भुजगप्रभोर्नागराजस्येव यस्यास्ये यदीयवदने जिह्वानां रसनानां सहस्र द्विसहस्री वा इत्याल्लभ्यते । भवेत् । अपि पुनः सुरेश्वरसरितो गगनगङ्गायाः। 'सिद्धखःखर्गिरवापगाः' इति हैम्याम् । यथा सुरापगा तथा सुरेश्व. रापगापि । तथा 'सुरेश्वरतटिनीतीरस्थसिद्धाङ्गनाः' इति भोजप्रबन्धेऽपि । वीचीव जातावेकवचनम् । कल्लोलमालिकेवेत्यर्थः । यस्य वाक्चातुरी वचनविलासः कुत्रापि वर्णनादौ अस्खलिता अकुण्ठा क्वापि न स्खलति ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy