________________
४८२.
काव्यमाला |
सुरशिखरिणस्तुङ्गे शृङ्गे ध्वनिग्रहपारणां त्रिदशसुदृशां गायन्तीनां गुणाश्रमणेशितुः । रसिकमनसौ श्यामारामावराम्बरकेतनौ
किमयत इतो गीतिं श्रोतुं तमीदिवसात्यये ॥ १२४ ॥
श्यामा शर्वरी सैव रामा वनिता तस्या वरो भर्ता । ' यामिनीकामिनीपतिः' इति काव्यकल्पलतायाम् । चन्द्र:, तथा अम्बरकेतनः सूर्यः । 'गगनध्वजाध्वगाः' इति हैम्याम् । यथा गगनध्वजस्तथा पर्यायपरिवर्तनादम्बरकेतनः । ' द्वयेऽपि भूभृदायेषु' इति है मीवचनात् । इति तौ तभी रात्रिर्दिवसो वासरस्तयोरत्यये विरामे क्षये वा । प्रभाते संध्यायां चेत्यर्थः । उत्प्रेक्ष्यते - त्रिदशसुदृशां सुराङ्गनानां गीतिं गुणग्रामगानं श्रोतुं श्रवणविषयीकर्तुं किमयतः गच्छत इव । त्रिदशसुदृशां किं कुर्वन्तीनाम् । सुरशिखरिणः सुपर्वपर्वतस्य तुङ्गे गगनालिङ्गिनि शृङ्गे शिखरे गायन्तीनां गानगोचरीकुर्वन्तीनाम् ! कान् । श्रमणेशितुः सूरिराजस्य गुणान् । किंभूतां गीतिम् । ध्वनिग्रहपारणां रसिका -- यितमानसमनुजानां श्रवणानाम् । 'श्रुतौ श्रवः । शब्दाधिष्ठान पैजूषमहानादध्वनिग्रहाः ॥ कर्णः श्रोत्रं श्रवणं च' इति हैम्याम् । पारणाम् । यथा उपोषितानां ब्रड्ससरसीकृत रसवतीवलने पारणा तदाखादे चातितृप्तिः स्यात् तथा सूरिगुणगीतिश्रवणेन कर्णानां तृप्तिः स्यात् । अत एव श्रुतिपारणां गीतिं श्रोतुं प्रयातः कुत इतोऽस्मात्स्थानान्मेरोः समीपे शिखरसंनिधाने। किंभूतौ । खादरसिकमनसौ सरसगानाकर्णने रसकलिते उत्सुकतायुक्ते चेतसी ययोस्तौ ॥
धन्यास्ते नृपते फलेग्रहि पुनस्तेषामभूज्जीवितं
तैः प्रापे स्वजनुः फलं प्रथमतो गण्याश्च पुण्यात्मनाम् । यैर्लावण्यसुधां न्यपीयततमामां कण्ठमुत्कण्ठितैः
सूरैः स्मेरमुखाम्बुजन्मनि शरच्चन्द्रे चकोरैरिव ॥ १२५ ॥
हे नृपते हे नरनाथ, जगति ते पुरुषा धन्याः कृतपुण्याः पुण्यवन्तः । पुनस्तेषां पुरुषाणां जीवितं प्राणितव्यं फलेग्रहि सफलमभूत्संजातम् । पुनस्तैरेव मानवैः खजनुषः निजावरस्य फलं सार्थक भावः प्रापे लब्धम् । च पुनस्ते मानुषाः पुण्यात्मनां पवित्रात्मनाम् । सुकृतवतामित्यर्थः । मध्ये प्रथनत आदितो गण्याः पुण्यवन्तो जनास्ता - नादौ संस्थाप्य गणनीयाः संख्यागोचरीकर्तव्याः । ते के। यैरुत्कण्ठा औत्सुक्यं जाता येषां ते उत्कण्ठितास्तैरुत्कण्ठितैः सद्भिः सूरेहींरविजययतिराजस्य स्मेरं विकसितं यन्मु-खाम्बुजं तस्मिन्विषये लावण्यं सौन्दर्यमेव सुधाम् आकण्ठं कण्ठं मर्यादीकृत्य नितरामतिशयेनापीयततमामापीता आस्वादिता । कैरिव । चकोरैरिव । यथा शरच्चन्द्रे जलधरविरामसमयोदयमान सुधा किरणे ज्योत्स्ना प्रियैः पीयूषं पीयते ॥
1