________________
१० सर्गः] हीरसौभाग्यम् ।
न कदाचन गोचरा मनाक्रम भजन्ते प्रभविष्णुतां प्रभौ । दशना इव दन्तिनां महीभृति वा भानुमतीव तामसाः ॥ १२१ ॥ हे साहे, प्रभौ सूरीन्द्रे सकलसामर्थ्यवति वा यत्र कदाचन कस्मिन्नपि तारुण्यादिसमये गोचराः शब्दरूपगन्धरसस्पर्शाख्याः पश्चापि विषयाः प्रभविष्णुतां सामर्थ्य न भजन्ते स्म । तं न प्राभवन्नित्यर्थः । क इव । दशना इव । यथा दन्तिनां गजेन्द्राणां दन्तकोशा महीभृति पर्वते न प्रभवन्ति । वा पुनस्तामसा इव । यथा तामसास्तमसां समूहा घूका वा भानुमति सहस्रकिरणे न प्रभवन्ति ॥ सुधाधामदुग्धाब्धिकर्पूरपारीकुमुत्कुन्दशुधैर्यशोभिर्यतीन्दोः । कुदृक्कोटिसंटीकमानायशोभिः पुनर्विश्वमीशप्रयागी(गा)यते स्म ॥ १२२॥
हे ईष्टे सकलभूमण्डलैश्वर्यवान् भवतीति ईशस्तस्य संबोधनं हे ईश्वर, यतीन्दोः सूरेः सुधाधामामृतकिरणश्चन्द्रः, तथा दुग्धाब्धिः क्षीरसमुद्रः, तथा कर्पूराणां घनसाराणां पार्यः शकलानि 'फडसि' इति प्रसिद्धाः समूहा वा कुमुदानि कैरवाणि कुन्दानि मुचकुन्दकुसुमानि तद्वत् शुभैरुज्ज्वलैर्यशोभिः कीर्तिभिः । पुनः कुदृशा कुपाक्षिकाणां कोटेः संटीकमानैः प्रसरद्भिरयशोभिर्मषीश्यामापकीर्तिभिः कृत्वा विश्वमिदं जगत् प्रयागी(गा)यते स्म गङ्गायमुनासंयोगवदाचरति स्म । सूरियशांस्यत्युज्ज्व. लानि गङ्गाप्रवाहाः, कुदृशामपयशांसि श्यामानि कालिन्दीकलुषजलानि, तेषां सङ्गो नि. खिलेऽपि लोकेऽतो विश्वमेव प्रयागी(गा)यति(ते) प्रयागं तु एकत्रास्ते ॥
राजन्यस्य गुणान्गलन्मितिसुधास्पन्दान्निपीयादरा
न्मद्भोज्या अपि मय्यनादरपरा भोगीश्वरा भाविनः । मां तातानुगृहाण तेन सुधयात्यभ्यर्थितः साग्रह
- तानश्रावयितुं किमम्बुरुहभूरेतान्विकर्णान्व्यधात् ॥ १२३ ॥ हे राजन् , अम्बुरुहभूर्ब्रह्मा तान् सूरिगुणान् अश्रावयितुं न श्रवणगोचरीकारयितुम् । उत्प्रेक्ष्यते-एतान् भोगीन्द्रान् विकर्णान्कर्णरहितान् व्यधात् कृतवानिव । 'अश्रोत्राः फणिनस्तदेव रुचिरं नो चेदहिखा मिना' इति खण्डप्रशस्तौ । किंभूतो वेधाः । तेन कारणेन हे तात धातः, मामनुगृहाण मय्यनुग्रहं कुरु इत्यमुना प्रकारेण सुधया कक्को. लाख्येन पीयूषेन साग्रहं सोपरोधमभ्यर्थितो याचितः। यत्तदोः संबन्धाद्येन कारणेन गलन्ती निर्यान्ती मितिर्मानं येषु । अप्रमाणानित्यर्थः । तादृशान् सुधास्पन्दानमृतरसान् यस्य गुरोर्गुणान् निपीय सादरं श्रुत्वा अहमेव भोज्यं भोजनं येषां ते मोज्या अपि भोगीश्वराः सर्वेऽपि नागेन्द्राः मयि सुधायां विषये न विद्यते आदरः आइतिः पुरोऽप्रे येषाम् । अथ वा आदरे तत्परता येषां ते अनादरपरा अखीकारपरायणा . इत्यर्थः । भाविनो भविष्यन्ति । इत्ययं हेतुः ॥