________________
४८०
काव्यमाला ।
जामात्रे ऽप्यपत्रपा' इति शब्दप्रभेदे । व्रीडशब्दोऽकारान्तोऽप्यस्ति । 'स्मरत्रीडसमस्य यानया' इति नैषधे । जडीबभूव मूढः । विचेत इति यावत् । जातः ॥
बाह्यं हन्ति तमो द्विधापि स नृणामस्तंगमी नास्तवान्विश्वस्यैव विबोधकृत्स जगतां कृत्स्नन्पृणन्कौशिकम् । गृह्णन्सर्वरसानसौ नवरसांश्चिन्वञ्जनांस्तापय
ञ्छान्तानेष सृजन्प्रभो तदुपमां धत्ते व भावांस्ततः ॥ ११९
प्रभो खामिन्, ततस्तस्मात्कारणात् भानुः सूर्यस्तदुपमां सूरिसाम्यं क्व कुत्र लभते । अपि तु न कुत्रापि । यतो हेतोः सूर्यो बाह्यं चक्षुर्गोचरं लोकगतं तमोऽन्धकारं हन्ति । पुनः सूरिर्द्विधापि बाह्यं तमोऽज्ञानं मौख्यै तथा बाह्यं पापमपि व्यापादयति । तथा भानुः अस्तं नाशं गच्छतीत्येवंशीलो गमी । सूरिस्तु न विद्यतेऽस्तः क्षयोऽभ्युदयभ्रंशो. वा यस्येति नास्तवान् । सर्वदोदयीत्यर्थः । पुनः किंभूतः । विश्वस्यैकस्यैव भूलोकस्य वि. बोधकृजागरकारकः उद्द्योतकर्ता वा सूरिस्तु जगतां त्रयाणां भुवनानां प्रतिबोधविधाता । भावान्कि कुर्वन् । कौशिकमुलूकलोकं कृत्स्नन् पीडयन् वासरे तस्यान्धीभवनात् । गुरुस्तु कौशिकं पुरंदरं पृणन् अतिशायिसंयमगुणैः कृत्वा प्रीतिमुत्पादयन् । पुनः किंभूतः भानुमान् । सर्वानशेषान् रसान् भूमण्डलगत पानीयानि गृह्णन्नाददानः । 'श्रीष्मे सहस्ररश्मिः भूतलगत रुर्वारसानादत्ते' इति श्रुतिः । मुनीन्द्रस्तु सरसव्याख्यानविधानावसरे नवान् नवीनान्नवसंख्याकान् शृङ्गारहास्यकरुणारौद्रवीरभयानकबीभत्साद्भुतशान्ताभिधानान् रसांश्चिन्वन् पुष्टान्कुर्वन् । प्रायश्चरितानुवादेषु सर्वेऽपि रसाः समायान्ति न तथा सिद्धान्तव्याख्यानादिषु । पुनर्मार्तण्डः किं कुर्वन् । जनलोकांस्तापयन् स्वकीयात्यु - ष्णकिरणैस्तापसंतापभाजः सृजन् । भवपरम्परा परिचितीकृत दुरन्त दुरितोदीतदुःसहदुःखदावानलज्वालाप्रतप्तानेकभविक लोकान् ध्वंसितापरसिद्धान्तवैरुज्य जैनराद्धान्तसंबन्धिबन्धुरस्त्वव्याख्यानप्रागल्भ्यप्रगुणानणुपयोधरामृतधाराधोरणीभिः शान्तान्निस्ता पाञ्छीतलान् शान्तरसयुक्तान् वा कुर्वाणः ॥
यद्वाग्विधित्सया धात्रादत्तां वीक्ष्याम्बुधिः सुधाम् । खेदादिवोर्मितुमुलैः पतितो रटति क्षितौ ॥ १२० ॥
अम्बुधिः क्षीरसमुद्रोऽर्थालभ्यते उमीणां चतुर्दिग्गमनप्रवृत्तकल्लोलकलापानां तुमुलैर्व्याकुलशब्दकोलाहलैः कृत्वा । उत्प्रेक्ष्यते - क्षितौ भूपीठे पतितः सन् रटति रोदितीव पूत्कुरुते इव । किं कृत्वा । यद्वाचां वाचंयमचन्द्रमसां वाणीनां विधित्सया विधातुमिच्छया करणस्पृहया धात्रा जगत्सृजा ब्रह्मणा आदत्तां गृहीतां सुधां स्वामृतं वीक्ष्य । धनिकदोहनावसरे प्रेमातिरेका खतर्णकपानकृते गोर्गवां वा दुग्धमिव हरिणा मन्थानगमन्थानकमथनसमये तस्मात्कथंचिच्चारित्वा रक्षितं पीयूषं प्रात्तं प्रेक्ष्य ॥