________________
काव्यमाला।
दृशो गोचरो न श्रुतेः प्राघुणश्च प्रणीतः परः कश्चिदस्माभिरीदृक् । विधात्रा विधायैनमारोपि विद्मो ध्वजोऽधीश सत्सर्गसौधाग्रशृङ्गे ।। १२८॥ __ हे अधीश हे नायक, अस्माभिः खपरानेकदेशे दृश्वभिः श्रीमत्सभास्तारैरीदृगद्वैतगुणमणीगणरोहणधरणीधरः परोऽन्यः कश्चित्कोऽपि दृशो लोचनस्य गोचरो विषयः चक्षुर्लक्ष्यः तथा श्रुतेः प्राघुणः कर्णस्याप्यतिथिन प्रणीतः । न दृष्टो नापि श्रुत इत्यर्थः । अत्र वयमेवं विद्मः-विधात्रा वेधसा सतामुत्तमानां सर्गः सृष्टिनिर्माणं स एव सौधं मन्दिरं तस्याप्रशृङ्गमुपरितनशिखरं तत्र ध्वजः केतुरारोपितः । किं कृत्वा । एनं सूरिं विधाय निर्माय ॥ इति हीरविजयसूरिगुणवर्णनम् ॥
अवनिरजनिजानिः प्रेमरोमाञ्चिताङ्गो
निगदितमिति तेषां कर्णपेयं प्रणीय । रणरणकितचेता जायते स्म व्रतीन्दोः
ऋतुभुज इव सिद्धेर्दायिनो दर्शनाय ॥ १२९ ॥ अवनिः क्षोणी तस्याः । रजनी रात्रिर्जाया यस्यं । 'जायाया निङ् यलोपश्च' इति । रजनिजानिश्चन्द्रः अकबरपातिसाहिः व्रतीन्दोः सूरीश्वरस्य दर्शनाय अवलोकनार्थ रणरणक औत्सुक्यं जातं यस्मिंस्तद्रणरणकितं चेतो मनो यस्य तादृशो जायते स्म. बभूव । किंभूतः । प्रेम्णा स्नेहेन रोमाञ्चेन पुलकेन च युक्तमङ्गं यस्य । कस्येव । ऋतुभुज इव । यथा कश्चित्सिद्धेरभिलषितस्य दायिनो दानशीलस्य दर्शनार्थमुत्कण्ठमना भवेत् । किं कृत्वा । इति पूर्वोक्तप्रकारेण तेषां सभ्यानां निगदितं भाषितं सूरीस्तुतिरूपं वचःकर्णयोः पेयं पातुं योग्यं श्रवणाहै प्रणीय कृत्वा ॥ '
अवनिवलयवासवो वशीन्दोर्जगदतिशायिगुणैकतानचेताः । वसुपुरुषमिवात्मदिष्टदिष्टं स्वसविधमेनमुपानिनीषुरासीत् ॥ १३० ॥ अवनिवलयवासवो भूमण्डलाखण्डल: एनं सूरि खसविधं निजसमीपमुपानिनीषुरानेतुमिच्छुः आसीत् । किंभूतः । जगन्ति त्रीणि भुवनान्यतिशेरते अतिक्रामन्ति इत्येवंशीला ये गुणास्तेषु एकतानं लयानुगमैकामं चेतो यस्य मानसं यस्य सः । कमिव । वसुपुरुषमिव । यथा आत्मनो निजस्य दिप्टेन भाग्येन दिष्टं दत्तं वर्णनरं खसमीपमानयति ॥
यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः
पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । संजातो दशमोऽत्र देवविमलव्यावर्णिते हीरयु
क्सौभाग्याभिधहीरसूरिचरिते सर्गो रसैरुज्ज्वलः ॥ १३१ ॥