________________
४७८
काव्यमाला |
हे महीतलमहेन्द्र हे भूमीमण्डलाखण्डल, यो विभुर्हीरविजयसूरिः तृष्णां नानाभिलास्वरूपां स्पृहां विरत्या निखिलाभिलाषविरमणरूपनियमेन कृत्वा न्यकृन्तत् चिच्छेद । कामिव । वागुरामिव । यथा कश्चित्सकलजन्तुजातकृपापरः पुमान् वागुरां मृगजालिकां कृपाणिकया क्षुरिकया कर्तर्या वा कृन्तति छिनत्ति । यस्यां तृष्णायां वागुरायां भवं संसारं विपिनमरण्यं च भ्रमद्भिर्मृगैर्हरिणैरिव मुग्धजनैरज्ञा निलोकैर्निपत्य तदधीनीभूय पतित्वा दुःखानि अनेकप्रकारासातपरम्परा अलम्भिषत प्राप्तानि ॥
विश्वत्रयीश इव निःशरणात्मभाजा
मास्ते महीमिहिर यः शरणं शरण्यः ।
मैत्र्यं बिभर्ति जगता न कदाप्यमित्रभावं स भानुरिब नश्यदशेषदोषः ॥ ११४ ॥
हे महीमिहिर भूमीभानो, विश्वत्रयीशः त्रैलोक्यनायकः परमेश्वर इव यः सूरिर्निर्गतं शरणमाधारो यस्य तादृशमात्मानं भजतीति तेषामशरणानां शरणं गतिरास्ते । किंभूतः । शरण्यः शरणागतवत्सलः । पुनः स भानुरिव भास्वानिव जगता विश्वलोकेन साकं मैत्र्यं मित्रतां सखिभावं बिभर्ति परं कदापि कस्मिन्नपि प्रस्तावे अमित्रभावं वैरिताशयं न विधत्ते । किंभूतः । नश्यन्तः पलायमाना अशेषाः समस्ता दोषा अपगुणा यस्मात् । सूर्यस्तु सर्वदापि मित्र इत्यभिधानत्वं परं नामित्राख्यताम् । सोऽपि किंभूतः । नश्यन्तोऽशेषाः सर्वा अपि श्वेताः कृष्णाश्च दोषा रात्रयो यस्मात् ॥
संमोहसंतमससंततिसान्द्रितेषु मानावनीधरतटीस्थपुटीकृतेषु ।
संसारवर्त्मसु विमोहवतां शिवस्या -
ख्याता पथः स जगतामिव वर्त्मवेदी ॥ ११५ ॥
हे खामिन् अखिलजलधिमेखलापीठप्रभो, संसारवर्त्मसु भवगहनमार्गेषु विमोहवतां मिथ्यात्वाज्ञानादिना मूढभावभाजां दिङ्मढीभूतानां जगतां तात्स्थ्यात्तद्यपदेश इति न्यायेन जगज्जनानां शिवस्य मोक्षस्य पथो मार्गस्याख्याता कथयिता ते । किंभूतः । संमोहो महाज्ञानम् । 'संमोहधूलीहरणे समीरम्' इति संसारदावस्तुतौ । स एव संतमसानि प्रसृमरान्धकाराणि तेषां संतत्या परम्परया सान्द्रितेषु नीरन्ध्रीकृतेषु । पुनः किंभूतः । मानोऽहंकारः स एवावनीधरः पर्वतस्तस्य तटीभिः प्रपातस्थानकैः स्थपुटीकृतेषु विषमेषु विहितेषु । क इव । वर्त्मवेदीव यथा सदसन्मार्गवेत्ता पुमान् पथिषु विमोहवतां मार्गामार्गदिगपदिक्शुद्धिविरहितानां पथिकलोकानां शिवस्य निरुपद्रवरूपस्य मार्गस्याख्याता वक्ता भवेत् । महापर्वता दिगहरैरन्धकारैर्बहलीभूतेषु विषमेषु च ॥