________________
१० सर्गः] हीरसौभाग्यम् ।
४७७ हे क्षितीन्दो वसुधासुधांशो, भानोऽभिमानो गर्वः अपमानमात्तेन सूरिणवावगणना गमितः प्रापितः सन् पुनर्व्याघुट्य प्रतिघात्कोपात्तं सुरिमेवात्माराति खवैरिणं जेतु. मभिभवितुमिच्छन् वाञ्छन् सन् जगतां त्रिभुवनजनानामुपास्ति सेवां वितनुते विदधाति । कथम् । नक्तं दिनं रात्रिंदिवा । उत्प्रेक्ष्यते-खकीयमात्मीयं साहाय्यकं साहाय्यं चिकारयिषुः कारयितुमिच्छरिव ॥
विद्वेषिणीयमिति येन निहन्यमाना ... शिश्राय शंबरमसौ दितिजं प्रणश्य । स्थातुं न तत्र विभुरेतदुदीतभीतेः
प्रत्यङ्गिनं त्रिभुवने प्रमतीव माया ॥ १११ ॥ इयमस्माकं प्रतिभवं विद्वेषिणी वैरिणी महाहानिविधायिनी इति कृत्वा निहन्यमाना मार्यमाणा सती असौ प्रायः संसारवर्तिसर्वजनहृदयसदत्वेन जगत्प्रतीता माया शठता दम्भचर्या । कपटवर्तिरित्यर्थः । प्रणश्य कथंचित्प्राप्त्या प्रपलाय्य शंबरं शंबरनामानं दितिर्दानवमाता तस्या जायते स्मेति दितिजस्तं शिश्राय श्रिता । एतस्मात्सूरेरुदीतायाः प्रादुभूताया भीतेर्भयात् तत्रापि शंबरसमीपेऽपि स्मरेण घातित्वात्स्थातुं स्थिति कर्तु न विभुरसमर्था सती । उत्प्रेक्ष्यते-निर्विघ्नस्थानाभावात्रिभुवने त्रैलोक्येऽपि प्रत्याङ्गिनं ज. न्तून् जन्तून् प्रति माया भ्रमति पर्यटतीव ॥
संतोषतोयनिधिमध्य इवास्य मग्नो
दग्धः किमुद्धतसितप्रणिधानवहौ । जग्धोऽथ वा चरणकेसरिणा करीव
लोभः प्रभोरिति न चेत्किमनक्षिलक्ष्यः ॥ ११२ ॥ हे प्रभो स्वामिन् , सूरेर्लोभः । उत्प्रेक्ष्यते-संतोषः धृतिः निर्लोभता स एव तोय. निधिः समुद्रस्तस्य मध्ये गर्भ जलान्तराले मनो ब्रूडित इव । अथ वा उत्प्रेक्ष्यतेउद्धतः प्रज्वलन् सितप्रणिधानमेव शुक्लध्यानमेव वहिालाजिह्वः तत्र तन्मध्ये दग्धो भस्मीभूत इव । अथ वा करीव हस्तीव चरणं चारित्रं तदेव केसरी पश्चाननस्तेन जग्धो भक्षितः कुक्षिगतीकृतः इव । इति चेन्न तर्हि किं कथमनक्षिलक्ष्यः न लोचनगोचरः कदाचिदपि लोभो न दृश्यत इत्यर्थः ॥
तृष्णां महीतलमहेन्द्र विभुर्विरत्या
यो वागुरामिव कृपाणिकया न्यकृन्तत् । दुःखान्यलम्भिषत मुग्धजनैर्निपत्य
यस्यां मृगैरिव भवं विपिनं भ्रमद्भिः ॥ ११३ ॥