________________
४७९
काव्यमाला।
खालम्भभीलुक इवोत्कटकोपकुम्भी
कर्तुं प्रवेशमपि नो प्रभविष्णुरासीत् ॥ १०८ ॥ हे सकलराजचक्रचूडामणे, वाचं वाणी यमयन्ति सावद्यव्यवहारे प्रवर्तमानां नियत्रयन्तीति वाचंयमा वाग्गुप्तिधारका । वाक्कथनेन मनःकायगुप्ती समेते । मध्यग्रहणेन आद्यन्तयोर्ग्रहणं कार्यम् । 'तुलादण्डस्येव' इति न्यायेन । तथा 'ढक्कायसमारम्भे' इत्यत्र स. मारम्भ इति मध्यमपदग्रहणेन संरम्भारम्भयोराद्यन्तयोः पदयोर्ग्रहणम् । 'तुलादण्डन्यायेन' इति श्रीरत्नशेखरसूरिपादाः श्राद्धप्रतिक्रमणसूत्रवृत्तौ प्रोचुः । तेषां संगुप्तित्रयधारिणां साधूनां तेषु वावनिभृत्पार्थिवः पर्वतश्च तस्य शमः प्रशान्तरसः स एव नामाभिधानं यस्य तादृशाः । सामवेदाद्योनिरुत्पत्तिर्यस्य । श्रूयते च–'नारायणनाभ्यम्भोरुहकुहरकुटीरमधिशयानस्य वेदविद्यानिगदतो भगवतः पितामहस्य बृहद्रथान्तरविकीर्णाभासनामानि गायत: सामश्लोकरसनिष्पन्दादुदपद्यन्त ऐरावतसुप्रतीकप्रभृतयोऽष्टौ दिग्गं. जेन्द्रास्तेभ्योऽभवन् भद्रमन्दमृगमिश्रजातयो गिरिचरनदीचरोभयचारिगः । प्रसिद्धं चैतत् सामजा गजाः' इति चम्पूकथायाम् । तस्य तेषां वा प्रतीपः शत्रुः केसरी तेन कलितोऽङ्ग उत्सङ्गो यस्यास्तादृशीम् । मनः चित्तमेव गुहा कंदरा तस्यामुत्कटो मदोद्धतः कोपः क्रोध एव कुम्भी हस्ती प्रवेशमपि कर्तुं प्रभविष्णुः समर्थो 'नासीत् न बभूव । उत्प्रेक्ष्यते-खस्यात्मन आलम्भो व्यापादनं तत्र भीलुको बिभ्यदिव ॥
विश्राणयत्यसुमतां क्षितिकान्त बोधि
बीजं निधिं जनयितेव निजाङ्गजानाम् । सिद्धः स्वसिद्धिमिव भक्तिमतां विनीता
न्तेवासिनामिव गुरुः परमात्मविद्याम् ॥ १०९ ॥ हे क्षिते भामिन्याः कान्त वल्लभ, असुमतां भव्यजन्तूनां बोधिबीजं सम्यक्त्वं विश्राणयति ददाति । क इव । जनयितेव । यथा पिता निजाङ्गजानां खनन्दनानां निधि निधानं दत्ते प्रयच्छति । पुनः क इव । सिद्ध इव । यथा विद्यासिद्धिभृद्भक्तिमतां खसेवासकानां खस्यात्मनः सिद्धि मन्त्रादिसामर्थ्य दत्ते । पुनः क इव । गुरुरिव । यथा सम्यग्धर्मोपदेष्टा विनीतानां विनयकलितानां खादेशवशंवदानामन्तेवासिनां शिष्याणां परमात्मविद्यामध्यात्मानायं वितरति ॥
मानोपमानममुना गमितः क्षितीन्दो __ जेतुं पुनः प्रतिहतस्तमरातिमिच्छन् । साहाय्यकं किमु चिकारयिषुः खकीयं
नक्तंदिन वितनुते जगतामुपास्तिम् ॥ ११०॥