SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ १० सर्गः ] हीरसौभाग्यम् । ४७५ जैन सिद्धान्तः स एव कषः शाणानं तेनोल्लिखितमुत्तेजितं देदीप्यमानं निर्मितमन्तरालं मध्यं यस्य ॥ नीत्वा बहिर्निजमनः सदनान्निहन्य मानं विभाव्य विभुना खमरातिंभावात् । नश्यन्निवान्यजनहृत्परमाणुमध्ये रागो विवेश विवशाशयतादधानः ॥ १०६ ॥ रागोऽनुरागः सांसारिकः स्नेहः । उत्प्रेक्ष्यते — नश्यन्पलायमानः सन् अन्येषां सूरिव्यतिरिक्तानामितरेषां जनानां हृत् हृदयमेव परम उत्कृष्टो योऽणुः सर्वलघुरति - सूक्ष्मस्थानं तस्य मध्ये विचाले विवेश प्रविष्टवान् । नैयायिकानां मते हि मनसः परमाणुत्वमुच्यते । यथा नैषधे - ' यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति साक्षात् । बालया निजमनःपरमाणौ ह्रीदरीशय हरीकृतमेनम् ॥' इति । किंभूतः । विवरां व्याकुलमाशयमभिप्रायं मनो वा आ सामस्त्येन सर्वप्रकारेण दधानो बिभ्राणः । तदेव व्याकुलत्वमाह — किं कृत्वा । निजस्यात्मनो मनश्वित्तमेव सदनं वाससौधं तस्माद्बहिर्बाप्रदेशभूमौ नीत्वा निःसार्य कर्षयित्वा । निष्कास्येत्यर्थः । अरातिभावात्प्रतिभवं दुःखदायकत्वेन वैरित्वाद्विभुना सूरिणा निहन्यमानं मार्यमाणं खमात्मानं विभाव्य दृष्ट्वा विज्ञाय वा ॥ एतेन दुर्गतिरशोष्यत भूपमुख्य ग्रीष्मोष्मणेव विगलज्जलपङ्कपतिः । उल्लङ्घयते स्म भवपद्धतिरप्यनेन पाथोजिनीप्रियतमेन यथाभ्रवीथी ॥ १०७ ॥ हे भूपमुख्य सकलराजचक्रचक्रवर्तिन्, एतेन सूरिणा दुर्गतिः सम्यङ्कियमयमसंयमाराधनतो दुष्टा अनन्तदुःखदायका नरकतिर्यग्लक्षणा कुगतिरशोष्यत निषिद्धा निष्ठापिता • स्वतः । केनेव । ग्रीष्मोष्मणेव यथा निदाघदाघेन विगलन्ति तापातिरेकान्निर्यान्ति विशुष्य गच्छन्ति जलानि पानीयानि यस्यास्तादृशी पङ्कानां जम्बालानां पतिः श्रेणी शोष्यते । • अपि पुनरनेन गुरुणा भवपद्धतिः भाविनि भूतोपचारात्संसारमार्ग उल्लङ्घयते स्म अविक्रान्तः । केनेव । पाथोजिनीप्रियतमेनेव । यथा पद्मिनीप्राणनाथेन सूर्येण अभ्रवीथी गगनपदवी मेघमाला वा उल्लङ्घयते ॥ वाचंयमावनिभृतः शमनामसामयोनिप्रतीपकलिताङ्कमनोगुहायाम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy