SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ - १० सर्गः] हीरसौभाग्यम् । तत्तत्प्रभोः प्रदिश कल्पितकल्पशाखि न्द्वीपिव्रजो भजति वक्तुमितीव भूपम् ॥ ८ ॥ यस्यां क्वचित्स्थाने द्वीपिव्रजो व्याघ्रसमूहो भूपं.भजते । उत्प्रेक्ष्यते-इति वक्तुमिव कथयितुमिव । इति किम् । मम द्वीपीति नाम निरर्थकमिव वर्तते । द्वीपानि सन्त्यस्येति द्वीपी इदमभिधानं व्यर्थमेवास्ति । यत्कारणादिह जगति भूमण्डले वा मम द्वीपाधिपत्व. मेव नास्ति । मम किंभूतस्य । वनवासभाजः । द्वीपाधिपत्वं तु दूरे तिष्ठतु, द्वीपनगरादिमध्ये स्थितिरपि नास्ति । इदं तु जम्बुद्वीपम् । तद्रामादिष्वपि स्थितेरभावः । गिरिगहरे वासभाजः स्थिति कुर्वाणस्य । तत्तस्मात्कारणात् । हे कल्पितानां मनसोऽभिलषितानां पूरणे कल्पशाखिन् खस्तरो हे प्रभो हे साहे, तन्ममत्वं द्वीपाधिपत्वं प्रदिश देहि । इति विज्ञप्नुमिव ॥ प्राचीपतिं विबुधराजबलारिघाति· जिष्णुं सहस्रनयनं शतकोटिपाणिम् । दृष्ट्वा भ्रमादिव हरेः स्वपतेरुपेताः खःसुभ्रुवो व्यभुरिहामितवारवध्वः ॥ ८९ ॥ इह सभायाममिताः प्राणातीतास्ताम्बूलजलवालन्यजनादिवाहिन्यो वारवध्वो वारविलासिन्यो व्यभुः शुशुभिरे । उत्प्रेक्ष्यते-खःसुध्रुवोऽप्सरसः उपेता आगताः । कस्मात् खस्यात्मनः पत्युर्भर्तुर्हरेरिन्द्रस्य भ्रमाद्भान्त्या । किं कृत्वा । दृष्ट्वा । अर्थाद्यं नृपम् । किंभूतम् । प्राचीपतिं पूर्वदिक्खामिनम् । गुर्जर देशापेक्षया फतेपुरस्य पूर्वदिग्वर्तित्वात् । पुनः किंभूतम् । विबुधानां पण्डितानां राजानमधीश्वरम् । सर्वशास्त्रकलापारगामित्वात् । पुनः किंभूतम् । बलेन कलिता बलिष्टा ये अरयो वैरिणस्तेषां घातिनं हननशीलम् । पुनः किंभूतम् । जिष्णुं जयनशीलम् । सर्वत्राप्यप्रतिहतत्वात् । पुनः किंभूतम् । सहस्रनयनं सहस्राक्षम् । पुनः किंभूतम् । शतश: कोटयः वर्णादीनां शतसहस्रलक्षाः पाणी यस्य प्रबलकोशकलितम् । इन्द्रार्थे पूर्वापतिं देवराजं बलनामदैत्यस्य रिपोर्घातिनं नाना जिष्णुं सहस्रनयनं वज्रहस्तं च ॥ ऊर्वेदमा वचन मौलिविलासिहस्ताः श्रीकण्ठमित्रमिव शीलति राजराजिः । शैला इवैतदभिभूतमहीपतीनां मुक्तामणीवसुगणाधुपदाः स्फुरन्ति ॥ ९० ॥ वचन क्वापि सभायां राज्ञां महामहीन्द्राणां राजिः श्रेणी शीलति । अर्थात्सभापतित्वात् । यं नृपं भजते । किंभूताः । ऊर्वेदमा ऊवींभूताः । प्रायोऽकब्बरसाहिसमाजे सर्वेऽपि जनाः सामन्तादय ऊवीभूयैव संतिष्ठन्ते इति रीतिरासीत् । पुनः किंभूताः । मौलो
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy