________________
४६८
काव्यमाला ।
मस्तके विलसनशील स्थायुको हस्तौ यस्याः । कमिव । श्रीकण्ठमित्रमिव । यथा वैश्रवणं यक्षेश्वरत्वात् राज्ञां यक्षाणां राजिर्घोरणी शीलति । 'यक्षः पुण्यजनो राजा' इति हैम्याम् । पुनः क्वचन एतेनाकच्वरसाहिना अभिभूतानां वसेवकीभूतानां महीपतीनां राज्ञां मुक्ता मौक्तिकानि, मणयो रत्नानि । अधुना 'जवाहर' इति प्रसिद्धाः । वसूनि स्वर्णरूप्यधनानि तेषां गणा आदौ यासां तादृश्य उपदाः प्राभृतानि ढौकन कानि 'भिटणा' इति प्रसिद्धाः स्फुरन्ति । क इव । शैला इव । यथा अत्युच्चाः शैला वीक्ष्यन्ते । यथा अति हव्योsलिहाश्चोपदा दृश्यन्ते ||
शीलन्ति यं वचन संसदि लोकपालाः शच्या इव प्रियतमं च चतुर्दिगीशाः । साङ्गा इव क्वचन वीररसाश्च वीराः सेनान्यमेव चतुरङ्गचमूरनूनाः ॥ ९१ ॥
च पुनः संसदि सभायां वचन प्रदेशे चतसृणां प्राची - अवाची प्रतीची- उदीचीलक्षणानां दिशां हरितामीशाः स्वामिनो लोकपालाः राजानो यमकब्बरं शीलन्ति । कमिव । यथा शच्या इन्द्राण्याः प्रियतमं प्राणनाथं पुरंदरं सोमयमवरुणवैश्रवणाभिडायका लोकपालाः शीलन्ति । च पुनः क्वचन कापि वीराः सुभटाः शीलन्ति । उत्प्रेक्ष्यते - साङ्गाः सशरीरा वीरनामानः पञ्चमा रसाः इव । पुनः अनूना सुतनुत्रनिशितशस्त्रादिद्विचत्वारिंशदुपगरण कलिता चत्वारि गजवाजिरथपदातिलक्षणानि अङ्गान्यवयवा यस्यास्तादृशी चमूः शीलति । कमिव । सेनान्यमिव । अत्र एव इवार्थे । यथा चक्रवर्त्यादिसेनापतिं चतुरङ्गिणी सेना सेवते । अथवा । सेनान्यं स्वामिकार्तिकं चतुःस्कन्धा सुरसेना सेवते । देवैः स्कन्दमेव सेनांनीत्वेऽभिषिच्य तारको निहतः । एतद्विस्तरः परसमये ॥
आकाशवत्कविबुधश्रियमादधाना नीरेशितार इव जिष्णुरमाभिरामाः ।
श्रीदा इव प्रदधतोऽत्र वदान्यभावं
सभ्या विभान्ति धिषणा इव वागधीशाः ॥ ९२ ॥
अश्रीकब्बरसभायां सभायां साधवः सभ्याः सभासदः राजसभोपवेष्टारः विभान्ति शोभन्ते । किंभूताः । कवितया काव्य कर्तृत्वेन । यदुक्तं स्वगर्वापहारिणा केन चिद्विदुषा - 'वयमपि कवयः कवयः कवयः कवयश्च सिद्धसेनाद्याः । यद्यपि डलयोरैक्यं तत्कि कलभीयते रभः ॥' इति । तथा बुधतया पाण्डित्येन श्रियं शोभामा सामस्त्येन सर्वकलावेत्तृत्वेन दधानाः सभाया विभूषां कुर्वाणा वा । किंवत् । आकाशवत् । यथा आकाशाः कवीनां शुक्रानां बुधानां रोहिणीनन्दनानां च श्रियं लक्ष्मीमा सामस्त्येन बिभ्राणाः कुर्वाणा