SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ . १० सर्गः] हीरसौभाग्यम् । कुत्रापि साहिसभायाः क्वचन प्रदेशे वैणविकैः वेणुं वादयन्तीति वंशवादकैर्गन्धवजनैः प्रणुन्नः प्रेरितः । वादित इत्यर्थः । वेणुवंशः 'बासली' इति प्रसिद्धः । सान्द्रः स्नेहलैः श्रवणहृदयप्रेमोत्पादकैर्बहलैनीरन्त्रैर्वा नादैनिजनिनादैः कृत्वा । उत्प्रेक्ष्यतेइति हेतोस्तान् हरितां महेन्द्रान् इह फतेपुरनानि साहिनगरे वस्तुं वासं विधातुं किमाह्वयति आकारयतीव । अन्योऽपि कश्चिजन: केनापि प्रेरितः कमप्य निर्दिष्टनामानमाकारयति : इति किम् । भो इति संबोधने । अहो हरितां महेन्द्राः दशानामपि दिशामधीशाः, त्रिजगतीजयिनी त्रिभुवननिखिलनगरी निर्जयनशीला एषैव फतेपुरलक्षणा पू: पुरी निवस्तुं वस्तुं निवासं विधातुमौचित्यमार्हन्तीयोग्यतामावहति दधातीति ॥ कुत्रापि केलिविहगा मगधा इवोर्वी· भानोर्मुदा जयजयेदमुदीरयन्ति । शास्त्राम्बुधेरिव सुधालहरीहृदन्त स्थानोः कथाश्च कथकाः कथयांबभूवुः ॥ ८४ ॥ कुत्रापि सभायाः कस्मिन्नपि भूमिभागे केलिविहगा राजशुकसारिकाप्रमुखपतत्रिणः मुदा इष्टफलावलीप्राप्तिप्रमुदितमनस्त्वेन उर्वीभानोरतिशायिप्रतापवत्वेन वसुधाविवखतः अकब्बरस्य जयजयेदं हे साहे, त्वं चिरं विगलितावधि जय जय सर्वोत्कर्षेण वर्तख सर्वोत्कर्षेण वर्तख इदमेतदुदीरयन्ति । 'तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ता पटवस्तमस्तुवन्' इति नैषधे । कथयन्ति । क इव। मगधा इव । यथा मागधा मङ्गलजयशब्दादिकथकाः जयजयशब्दं राज्ञो वदन्ति च पुन: कथकाः पुराणोदितव्याख्यानका. रिण: पुरातनकथाकथयितारो वा ब्राह्मणादयः पुरुषाः कथा महापुरुषचरितानि कथयांबभूवुः । उत्प्रेक्ष्यते-हृदन्तर्हृदयमध्ये स्थानोः स्थायुकस्य निवसनशीलस्य शास्त्राम्बुधे. मियसमुद्रस्य सुधालहरीरमृततरङ्गानिव ॥ यस्यामवीज्यत विभुश्चमरैः सुरेन्द्रः खर्वणिनीभिरिव वारविलासिनीभिः । रेजे पुनर्नुपतिमूर्ध्नि सितातपत्रं राजत्वनिर्जित इवोपचरन्मृगाङ्कः ॥ ८५॥ यस्यामकब्बरसभायां विभुरकब्बरपातिसाहिः वारविलासिनीभिः बालव्यजनवीजनातपत्रधारणादिप्रकारैः पार्थिवसेवाविधायिकाभिः पण्याङ्गनाजातिभिः वारसारङ्गलोचनाभिः चमरैर्वालव्यजनैः कृत्वा । 'चमरश्चामरोऽपि च' इति शब्दप्रभेदे । अवीज्यत वीज्यते स्म । क इव । सुरेन्द्र इव । यथा वासवः स्वर्वर्णिनीभिरुवंशीप्रमुखाभिरप्सरोभिः दिव्यप्रकीर्णकैर्वीज्यते । पुनरपरोक्तो यस्यां संसदि नृपतिमूर्ध्नि पातिसाहिमस्तके सितातपत्रं सितातपवारणं रेजे भाति स्म । उत्प्रेक्ष्यते-राजत्वेन राजभावेन निर्जितः
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy