________________
४६४
काव्यमाला।
कुत्रापि मौरजिकमण्डलवाद्यमान___ माद्यन्मृदङ्गनिनदाननुकतुकामः । जैनं पदं परिचरन्विगतावलम्बः
श्रेयोऽनुतिष्ठति घनः किमु कामवर्षी ।। ८१ ॥ कुत्रापि साहिसभायाः कस्मिंश्चित्प्रदेशे मुरजान्वादयन्तीति मौरजिका मृदङ्गवादकास्तेषां मण्डलेन संदोहेन वाद्यमानानां विविधतालैः पाणिभिलाध्यमानानां तथा मा.' द्यता भोजनदानलोभेन मदवता गम्भीरनिजाभ्यां मृदङ्गानां मर्दलानां निनदान् शब्दाननुकतु सदृशीभवितुं कामोऽभिलाषो यस्य तादृक् घनो जलधरः श्रेयः मुकृतं' पुण्यमनुतिष्ठति करोतीव । किंभूतः । विगतो निर्यातोऽवलम्ब आश्रयः स्वजनादिवर्ग:
खामिनगरायुपष्टम्भो यस्य । एतावता एकाकी गगनेस्थितत्वात् च निराधारः । पुनः किंभूतः । काममतिशयेन जनमनोभिलाषं वा वर्षति प्रचुरपयोवृष्टिं कुरुते प्रददातीत्येवं. शील: कामवर्षी । पुनः किं कुर्वन् । जैनं जिनोऽर्हनारायणश्च तत्संबन्धि पदं चरण परिचरन् सेवमानः । अहंन्चरणं विष्णुपदं च भजमान: । आकाशे तिष्ठन्नित्यर्थः ॥
खर्गे न किंचिदपि दानमवामुवद्भिः __प्राप्तैस्तदाप्तुमवनी धनदाद्धरेन्द्रात् । . देवैर्न तुम्बुरुमुखैः क्वचन प्रवीणै
वीणा अवादिषत कर्णसुधां किरन्त्यः ॥ ८२ ॥ क्वचन सभायाः कुत्रचित्स्थाने प्रवीणेवीणावादनातिनिपुणवैणिकवाणावादकवाणा विपश्योऽवादिषत वाद्यन्ते स्म । किं कुर्वन्यो वीणाः । कर्णयोः श्रोतृश्रवणयोः सुधामत्यन्ताह्लादकारित्वादमृतं किरन्यो वर्षन्तः । उत्प्रेक्ष्यते-तुम्बुरुर्नामा कश्चित्मरगायनविशेषः स मुख आदिवेषां तैः। देवगायनैरित्यर्थः । नेव्युत्प्रेक्षार्थे । किंभूतैर्देवः । अवनों भूमी प्राप्तैरागतैरिव । किं कर्तुम् । अवन्या भूमेर्धनदादतिवदान्यतया वैश्रवणाद्ध रेन्द्रादकब्बरात्सकाशाद्दानं मनःसमीहितपनं आप्तुमधिगन्तुम् । तर्हि किम् । स्वर्ग दानं नास्ति । तदेवाह-किंभूतदेवैः । स्वर्ग दवलो के किंचिदपि स्तोकमात्रमपि दानं विवागन दविणादि । नेति निषेधे । नावाप्नुवद्भिः अलभमानैः । देवेन्द्रादीनां दृढमुष्टितया वसुधायां वदान्यबाहुल्यादुपेतमिति ॥
एषैव पूस्त्रिजगतीजयिनी निवस्तु__ मौचित्यमावहति भो हरितां महेन्द्राः । कुत्रापि वेणुरिति वैणविकैः प्रणुन्नो
वस्तुं किमाह्वयति तानिह सान्द्रनादैः ॥ ८३ ॥