SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] हीरसौभाग्यम् । ब्बरपातिसाहिः तस्यां फतेपुरनाम्यां पुरि नगर्या राज्यं करोति स्म। समग्रनगरजनपदगजचक्रैश्वर्यं भुनक्ति स्म । क इव। सुरेश इव। यथा खर्गे देवलोके देवेन्द्रो राज्यं पालयति । पुनः क इव । शेष इव । यथा अहिगेहे नागलोके शेषनागाधिपो धरणेन्द्रो वा राज्यं कुरुते। पुनः क इव । चन्द्र इव । यथा दिवि आकाशे निशापतिज्योतिषामैश्वर्य कुरुते । पुनः क इव। निधिनाथ इव । यथा अलकायां निधीनां समस्तमहीमण्डलगतनिधानानां नाथः स्वामी धनदः राज्यं पालयति ॥ इत्यकब्बरवासितफतेपुरवर्णनम् ॥ गान्धर्विकाः क्वचन घोषवतीं वहन्तो गायन्ति यत्र नवपञ्चमगर्भगीतिम् । प्रस्थापितास्तमुपवीणयितुं मघोना वर्गायनाः खजयशङ्कितचेतसेव ॥ ७९ ॥ यत्राकब्बरसभायां वचन कुत्रापि प्रदेशे घोषवतीं वीणां वहन्तः करे धारयन्तः गान्धर्विकाः गायनवरा इतरगायनजनगानेभ्योऽसाधारणोऽश्रुतपूर्वत्वान्नवीनः पञ्चमनामा रागो गर्ने मध्ये यस्यास्तादृशीं गीतिं गानं गायन्ति गेयविषयीकुर्वन्ति । उत्प्रेक्ष्यते-खस्यात्मनो जये पराभवे असौ खर्गे समेत्य मा मां जयतादिति शङ्कितं शङ्कायुक्तं जातं चेतो यस्य तादृशेन मघोना शक्रेण तं साहिं वीणया कृत्वा उप समीपे समेत्य गातुं गानगोचरीकर्तु प्रस्थापिताः प्रेषिताः खर्गायना हाहाह्हूप्रमुखा देवगन्धर्वा इव ॥ यस्यां महीमदनसंसदि नर्तकेषु "नृत्यं मनोनयनवृत्तिहरं सृजत्सु । सप्तखरैस्तदुदिताप्रमितप्रसत्ति सप्ताङ्गलक्ष्मिमुदितध्वनितैरिवासे ॥ ८ ॥ यस्यां वर्णनागोचरीकर्तुमारब्धायामतिशाविरूपत्वान्महीमदनो भूमीमनोभूरकब्बरपातिसाहिस्तस्य संसदि सभायाम् । 'निषधवसुधामानां कस्य' इति नैषधे । नर्तकेषु नृत्यकारकेषु मनसा तथा नयनानामर्थाच्चतुरचित्तलोचनानां वृत्तेापारस्य हरमपहारकम् 'अनन्यवृत्तिविधायकं नृत्यं ताण्डवं सृजत्सु कुर्वत्सु सत्सु । षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत-निषधनामभिः सप्तभिः खरैरासे । सप्तखराणां तानमानमूर्छनाभिर्बभूवे इत्यर्थः । उत्प्रेक्ष्यते-तस्मादकब्बरसाहेरुदिता प्रकटीभूता या अप्रमाणा प्रमाणातीता असाधारणा प्रसत्तिः प्रसन्नता यस्यास्तादृश्याः । स्वामि-अमात्य-सुहृत्कोश-राष्ट्र-दुर्ग-सैन्यलक्षणानि सप्तसंख्याकान्यङ्गानि अवयवा यस्यास्तद्विधायाः लक्ष्म्या राज्यश्रियाः । समासमध्ये लक्ष्मिशब्दो द्वखोऽपि दृश्यते । यथा-'चरणलक्ष्मिकरणग्रहणोत्सवे' इति ऋषभनम्रस्तवे । तथा-'लक्ष्मीर्लक्ष्मिर्हरेः स्त्रियाम्' इति शब्दप्रभेदेऽपि । मुदितध्वनितैरिव प्रमोदमेदुरमनस्त्वेन शब्दितैरिव ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy