________________
काव्यमाला।
छायापथे निरवलम्बतया वसन्ती
संख्यातिपातिमखभुग्भरभारितेव । पौरस्फुरत्पुरनिभादमरावतीयं
__ भूमौ समं निजजनैय॑पतत्रुटित्वा ॥ ७६ ॥ पोरै गरैर्नगरवासिभिनिखिलजनैः स्फुरनिर्भरभृतं दृश्यमानं विलसद्वा यत्पुरं फते.. पुराभिधनगरं तस्य निभात्कपटानिजजनैः खदेवीदेवलोकैः समम् । उत्प्रेक्ष्यते-इयं प्रत्यक्षलक्ष्या अमरावती पुरंदरपुरीव त्रुटित्वावस्थानाद्भशमवाप्य न्यपतत् । अधो. भूपीटे निपतिता स्थिता चावाप्याधारम् । किंभूता । छायापथे छायारूपे न तु क्रमादिमोचित स्थाने तादृशे पधे मागे गगने निरवलम्बतया निराश्रयभावेन वसन्ती वासं विदधती। तिप्रतीत्यर्थः । पुन: किंभूता । संख्यां गणनामतिपतन्ति अतिक्रामन्तीत्येवं शीला ये मखभुजो देवालेषां भरावधैर्भारः गौरवं संजातोऽस्या इति भारिता भार.. युक्ता जाता नम्रीभता । अत एव त्रुटित्वा पतिता इत्यर्थः ॥
स्मारावरोधनधियं विदुषां ददाना __यस्मिन्स्मिताम्बुजशः श्रियमाश्रयन्ते । ' गोष्ठी विधित्सव इवात्र चतुर्निकाय
देवाङ्गनाः कुतुकिता मिलिता मिथोऽभूः ॥ ७७ ॥ यस्मिन् फतेपुरे स्मिताम्बुजदृशः स्मेरारविन्दनयनाः श्रियं शोभामाश्रयन्ते बिभ्रते। किं कुर्वाणाः। ददानाः प्रयच्छन्त्यः । काम् । स्मरस्य मदनस्येदं स्मारं तादृगवरोधनमन्तःपुरं तस्य धियं बुद्धिम् । केपाम् । विदुषां पण्डितानाम् । ‘स्मरावरोधभ्रममावहन्ती' इति नैपधे । उत्प्रेक्ष्यते--अमूः प्रत्यक्षाः चतुर्णा 'वनपतिव्यन्तरज्योतिष्कविमानवासिलक्षणानां निकायानां जातिविशेषाणां देवानामजनाः स्त्रियः मिथ: परस्परम् अत्र नगरे अमू: जगजननयनविषया मिलिता इव । किंभूताः । गोष्टी विधित्सवः अन्योन्यं गोष्ठी खखवाती कर्तु काङ्क्षन्त्यः । अत एव किंभूताः । कुतु किताः कुतुकं खपरस्परखान्तप्र. वृत्तिप्रविधाने कौतुहलं हृदयोल्लासो जातमासामिति कुतुकिताः ॥ इति नरनार्यः ॥
स्वगें सुरेश इव शेष इवाहिगेहे
चन्द्रों दिवीव निधिनाथ इवालकायाम् । प्रीणन्प्रजा दशदिशां विजयं विधाय
तस्यां पुरि क्षितिपतिः स्म करोति राज्यम् ॥ ७८ ॥ दशानामपि दिशां हरितामासमुद्रक्षितेर्विजयं स्वायत्तीकरणं विधाय कृत्वा प्रजाः प्रकृतीः समत्तलोकान् प्रोणन संतुष्टान् कुर्वन् । स क्षितिपतिः जगत्प्रसिद्धिमानक