________________
१० सर्गः] हीरसौभाग्यम् ।
१९९ द्वारका नारायणनगरी पयोधिमध्ये समुद्रसलिलदुर्गान्तराले प्रविशति स्म प्रविष्टा । उत्प्रेक्ष्यते-तस्याः श्रीकरीपुर्याः सकाशाद्भता उत्पन्ना भूरितरा अतिमहती या भीतिभयं तया कृत्वा विहस्तं व्याकुलीभूतं चेतो मनो यस्याः। किं तादृशीव किं कृत्वा । खस्याः श्रीकर्या भवैरुत्पत्नैर्वण्य जगत्रयजनवर्णनीयैर्विभवैः श्रीभिः संस्पर्धया अभ्यसूयया कृत्वा निजस्य द्वारवत्याः आत्मनो जयाय पराभवनाय समुजिहानामुद्यतां प्रगल्भानां कृतोद्यमानां वा यां श्रीकरीपुरी निर्वर्ण्य दृग्गोचरीकृत्य॥इति समुदायेन नगरीवर्णनम् ॥ अथ पृथग्वर्णनम्
धात्रीधृतौ फणसहस्रभृताभ्यसूयां
बिभृद्भुजंगविभुनाम्बरचुम्बिमौलिः । सालः स्मयेन कपिशीर्षककोटिमुच्चै. धेर्तु मरुगृहमिव खयमप्यधत्त ॥ १९ ॥ सालो यत्प्राकारः स्मयेन गर्वावेशवशंवदतया । उत्प्रेक्ष्यते-खयमप्यात्मनोऽपि मरुगुहं स्वर्ग धर्तुमुद्दोढुं धारयितुमुच्चैर्ध्वमुपरिष्टात् कपिशीर्षकाणामहालकानां 'कासीसा' इति प्रसिद्धानां कोटिमधत्त धृतवानिव । साल: किं कुर्वन् । भुजंगविभुना शेषनागनायकेन सममभ्यसूयामोर्ध्या स्पर्धा बिभ्रद्दधानः । किंभूतेन भुजंगविभुना । धात्र्या धरिया धृती धारणविषये फणानां खशिरसां सा दशशतीं बिभर्तीति । साल: किंभूतः । अम्बरमाकाशं चुम्वतीति शिखरेण स्पृशतीत्येवंशीलो मौलिमूर्धा यस्य । . अनंलिह इत्यर्थः ॥
यद्वप्रवज्ररुचिसंचितशकचाप
चक्राइचुम्बिकपिशीर्षकराजिराभात् । युद्धं विधातुमहितेन विधुतुदेन
मित्रान्तिकं किमु समीयुरमी सगोत्राः ॥ ७० ॥ - यस्या नगर्याः वप्रः प्राकारः तस्य तत्संबन्धिनां वा वज्राणां गर्भसंदर्भीकृतकुलिशरनानां रुचिभिः कान्तिभिः संचितानि पुष्टानि कृतानि प्रकटीकृतानि वा शकचापचक्राणि इन्द्रधनुमण्डलानि । अथ च वज्रशककोदण्डचक्राख्यानि आयुधानि यस्यां तादृशी । तथा अभ्रमाकाशं चुम्बत्यालिङ्गतीत्येवंशीला अभ्रंकषा कपिशीर्षकाणां राजिः पङ्गिः आभाद्वभौ । उत्प्रेक्ष्यते-अहितेन शत्रुणा विधुतुदेन राहुणा सार्धं युद्धं संग्रामं विधातुं कर्तु मित्रस्य सुहृदः सूर्यस्य चान्तिकं समीपममी सगोत्राः खजनाः किमु समेता उपगता इव । सगोत्रत्वं तु वृत्ताकारत्वेन प्रकाशकत्वेन च नभःपान्थत्वेन प्रभाकरत्वेन च । तथा सगोत्रा हि सायुधाः संग्रामसमये सगोत्रसमीपे प्रायः समायान्ति इति रीतिरियम् । तत्रापि