SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कश्चित्सगोत्रोऽप्यनिष्टो भावदेवं च सत्पयं पर मित्रः ततः सर्वमप्युचितमेवेति ॥ इति प्राकारः ॥ यत्रापणेष्वगुरुचन्दनगन्धधूली चन्द्रप्रकीर्णकमणीसुरदुष्यमुख्याः । ज्ञानैर्जिनैखिजगतीव समस्तवस्तु वीथी व्यलोक्यत नरैर्निजनेत्रपझैः ॥ ७१ ॥ वत्र फतेपुरे आपणेषु व्यवहारिणां हटेषु समस्तानां वस्तूनां ऋयाणकानो वीथी घेणी नरैर्नगरपामजनपदजन्मभिर्जनैर्निजनेत्रपझैः खनयनारविन्दैव्य॑लोक्यत समीक्ष्यते स। किंभूता । अगुरवः काकतुण्डाः, चन्दनाः श्रीखण्डाः, गन्धधूल्यः कस्तूरिकाः, चन्द्राः कर्पूराः सुवर्णानि वा, प्रकीर्णकानि चामराणि मणयश्चन्द्रकान्ताद्याः सर्वजातिर. मानि वा सुरदुष्याणि देवकुलानि वासांसि मुख्यान्यादीनि प्रधानानि वा यस्याम् । कैरिव । जिनरिव । यथा वीतरागैः केवलिभिः केवलज्ञानः कृत्वा त्रिजगति त्रैलोक्ये समस्तवस्तुविखारो विलोक्यते । समस्खवस्तुविस्तारो लोके एव नालोके, तत. त्रिजगढ़हणम् ॥ श्रेणीभवन्युभयपक्षवलक्षरत्न हट्टावली विलसति स्म फतेपुरस्य । सुखामिसंमदितयत्पुरपद्मधामा वक्षःस्थलीकलितमौक्तिकमालिकेव ॥ ७२ ॥ ' फतेपुरस्याकबरनगरस्य श्रेणीभवन्ती द्विपक्षया जायमाना उभयपक्षयोयोः पा. वयोः । 'शव्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमाः' इति रघुवंशे । 'उभयाभ्यां द्वाभ्यां पक्षाभ्यां पार्धाभ्यां परिवर्तनेन कृत्वा विनीता अपहस्तिता निद्रा यैः' इति तद्वत्तौ । वलक्षरत्नानां स्फटिकमणीनां स्फटिकोपलकल्पितानां हटानामापणानामावली धोरणी विलसति स्म शुशुभे । उत्प्रेक्ष्यते-सुशोभनो नीतिमान् खामी अकब्दरसाहतेन संमदो हर्षः संजातोऽस्यास्तया संमदितया संजातानन्दया यत्पुरस्य फतेपुरनग. रस्य पद्मधान्या अरविन्दमन्दिरया लक्ष्म्या वक्षःस्थले खहृदये आकलिता धृता परि. हिता मौक्तिकमालिका मुक्काहारलवेव ॥ इति हटावली ॥ वेश्मवजाः पुरि विभान्ति मणीमरीचि संचारचूर्णिततमीतिमिरप्रसाराः । स्फूर्त्या विजित्य सुमनोनगरी गृहीता मन्ये विमाननिवहा अनयादसीयाः ॥ ७३ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy