________________
४५८.
काव्यमाला।
प्रेक्ष्य प्रभुं हरिमिव खमुपेतमा
प्रीतेरनूपगतवत्यमरावतीयम् ॥ १६ ॥ यं नृपम् । यन्मूर्तिमित्यर्थः । उयो महीमण्डले उपेतमागतं स्वमात्मीयं प्रभुं स्वामिनं हरिमिन्द्रं प्रेक्ष्य विलोक्य । विज्ञायेत्यर्थः । प्रीतेः खखामिनि स्नेहातिरेकात् अनु पृष्ठे . उपगतवती समायाता । उत्प्रेक्ष्यते-इयं श्रीकरीरूपा अमरावती इन्द्रनगरीव । किंभूतं . यं हरिं च । भूमीभृतां विपक्षक्षोणीक्षितां पर्वतानां च प्रतिभटं विद्वेषिणं निहन्तुकम् । ' पुनः किंभूतम् । सुष्टु शोभनं मनो येषां निरवद्यहृदयेषु महत्तु देवेषु च मुख्यमग्रगण्यम् । पुनः किंभूतम् । जिष्णुं जयनशीलं तथा उग्रं प्रचाई खासहजपरःसहस्रसंहार. कारकं धन्व कोदण्डं यस्य । तथा पविर्वज्रमाकृत्या पाणे. हस्ते यस्य । प्रायः पुण्यवतां । पाणिपादेषु वज्रचक्राङ्कुशादिलक्षणानि स्युः । तथा सहसं दशशतसंख्याकानि नेत्राणि लोचनानि यस्य । 'सहसंखी राजा' इति लोकवाक्यापि । चरप्रधानपुरोहितादीनां दृग्भिभूपालाः पश्यन्तीति कविसमयोऽपि । पश्चात्कर्म धारयः । शक्रस्य त्वेतानि नामा-' न्येव सन्ति ।
स्पर्धा यया विदधतं त्रिजगज्जयिन्यः ___ दृष्ट्वा बलेर्गृहमियं क्वचिदौधिती न। ध्यात्वेति पद्मजनुषा प्रतिघातिका
त्क्षिप्तः क्षणात्क्षितितले बोलेना किमेषः ।। ६७ ॥ पद्मजनुषा ब्रह्मणा इत्यमुना प्रकारेण ध्यात्वा. विचिन्त्य प्रतिघातिरेकादनुचितविभावनोद्भूतकोपातिशयात् । उत्प्रेक्ष्यते-बलिना बलिनान्ना दैत्येन सार्धम् । अत्र सार्धपदाध्याहारः । अथ वा बलिना वलवता विधिना । बलवन्तं विना कापि कार्यसिद्धिर्न स्यात् । अत एष बलिगृहः क्षणानिमेषमात्रारिक्षतेः पृथिव्यास्तले अधोभागे क्षिप्तः पाताले प्रवेशितः । 'बलिसद्म दिवं सतथ्यवागुपरि स्माह दिवोऽपि नारदः' इत्युपरि स्थितिर्बलिगृहस्य नैषधे । इति किम् । त्रिजगजयिन्या भुवनत्रितयीयावनगरीजयनशी. लया यया श्रीकर्या नगर्या सार्ध स्पर्धामभ्यसूयां विदधतं कुर्वाणम् । बलेर्गृहं नागलोकं दृष्ट्वा खयमन्विष्य इयमनया श्रीकरीपुरा सह स्पर्धाकृतिः क्वचित्कुत्रापि नौचिती न युक्तिमती इति चेतसि विचार्य ॥
निर्वर्ण्य वर्ण्यविभवैः स्वभवैः पुरी यां
संस्पर्धया निजजयाय समुजिहानाम् । तद्भूतभूरितरभीतिविहस्तचेताः
किं द्वारका प्रविशति स्म पयोधिमध्ये ॥ १८॥ .