________________
१० सर्गः]
हीरसौभाग्यम् ।
तस्मा कारणान् कादयपीपतिरवनिनायकः तम्या: श्रीकणं आह्वां नाम फतेपुरमिति प्रददे दत्तवान् । करोति स्मेत्यर्थः । यत्तदोनियाभिसंबन्धाद्यद्यस्मात्कारणात् सोऽकब्ब. रपातिसाहिः प्राक् पूर्व वासनसमये तस्याः श्रीकाः पुरो नगर्याः प्रतिभटान् प्रत्यर्थिपार्थिवान विजेतं प्रचलन प्रतिपमानः दशापि प्राची-आग्नेयी-दक्षिणा-नैऋती-प्र. तीची-वायवी-उत्तरा-ऐशानी-नागी-त्राझीलक्षणा आशा दिश: फते खायत्ताः । यवना हि विजयस्याभियां 'कते' इति कथयन्ति इति । 'दशदिगन्तजिता रघुणा यथा' इति रघुवंशे । दशदिशां जय: कुरुते म कृतवान् । जनमते तु महानद्यादिषु इतस्ततः पयःप्रवाहागमनैनिन्नीभवद्भभागनिवासिशबरादिग्रामाः शैलसंधिगह्वरमध्यगतामेल्लापल्यो वा अधोदिग्वर्तिनः तथा पर्वतोपरिकोटादय ऊर्ध्वदिग्भाज इति तत्त्वम् इति दशदिग्जयः जिगायेत्यर्थः ।।
गौरीमहेश्वरगणा स्फटिकावनद्ध___ मध्या सशेवधिपतिः प्रचलत्कुमारा । कर्णातिथीभवदिभाननधीररावा
कैलासभूमिरिव या नगरी रराज ॥६५॥ चा श्रीकरीनगरी केलासभूमिः स्फटिकाचलक्षोणीव रराज राजते स्म । किंभूता। गौरीभिः काञ्चनचारुवर्णवर्णनीयणिनीभिः कलितानां महेश्वराणा महेभ्यानामगणितदविणवतां व्यवहारिणां गणा व्रजा यत्र । पक्षे पार्वतीसंयुतशंभुः तथा गणाः पार्षदाः प्रमथादयो यस्याम् । पुनः किंभूता। स्फटिकादुज्ज्वलमवनद्धं सुधाकल्पितं गृहविपणिग. णमयं मध्यं यस्याम् । यक्षे स्फटिकरत्नैरवनद्धं बद्धं मध्यं यस्याः स्फटिकाद्रित्वात् । पुन: किंभूता । सह शेवधीनां निधानानां पतिभिः स्वामिभिः अगणिताप्रमाणद्रविणत्वात्प्रतिस्थाननिक्षिप्तानेकनिधिनायकैरीश्वरैर्वर्तते या । पक्षे सधनदा । 'केलासौकायक्षधननिधिकिपुरुषश्वरः' इति हैम्याम् । पुनः किंभूता । प्रचलन्तः क्रीडाकृते स्वतत्रमितस्ततः परिभ्राम्यन्तः कुमारा राजामात्यसामन्तमहेभ्यादीनां वालका यत्र । पक्षे प्रचलन् पित्रोमिलनार्थ गमागमं कुर्वन् कुमार: स्वामिकार्तिको यत्र । स्कन्दस्यान्यत्रापि स्थितिसंभवागमागमौ युक्तौ । तथा—'मुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि' इति चम्पूकथायाम् । अथ वा गौरीनन्दनत्वात्तत्रापि मातुः पार्श्वेऽवस्थितत्वाच्चेति द्वयोरपि कर्मधारयः । पुनः किंभूता । कर्णातिथीभवन्तः श्रवणप्राघुर्णा जायमाना इभानां मदगन्धबन्धुरसिन्धुराणामाननेभ्यो वक्रेभ्योऽर्थानिर्गता धीराः पानीयपूर्णाप्रमाणश्रावणसंबन्धिजलधरध्वनितानुकारिणो रावा गम्भीरगर्जारवा यस्याम् । पक्षे श्रूयमाणो गणनायकधीरध्वनिर्यस्याम् । विनायकस्यापि गौरीतनूजत्वात् ॥
भूमीभृतां प्रतिभटं सुमनःसु मुख्य
जिष्णूप्रधन्वपविपाणिसहस्रनेत्रम् ।