SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यमाला। अनामयत् खपदप्रणतान् प्रणयति स्म । क इव । वायुरह इव यया वातवेगः क्षितिरुहान् पादपान् नामयति नम्रीकरोति । अपि च पुनस्तस्मादकब्बरमुद्गलपातिसाहेर्दक्षिणस्यां दिशि भवा दाक्षिणात्यास्ते च ते माभृतश्च राजानस्तेषां भरेण वृन्देन दिशो जगृहिरे पलायितम् । 'पलायितस्तु नष्टः स्याद्गृहीतदिग्भिराहितः' इति हैम्याम् । शरभादिव । यथा अष्टापदात्कुञ्जरारातेः सकाशात् । 'शरभः कुञ्जरारातिरुत्पादकोऽष्टपादपि' इति हैम्याम् । सिन्धुरेण । जातिवाचित्वादेकवचनम् । निजाहितत्वेन हननभी.. तेर्गजेन प्रपलाय्यते ॥ आज्ञा यदम्बुनिधिनेमिविधेरधारि ___ शीर्षेव मूर्ध्नि धरणीरमणैरुदीच्यैः । पाश्चात्यभूमिपतयो यतयो बभूवु भीतेविरागत इवोज्झितसङ्गरङ्गः ॥ ५९ ॥ यश्वासौ अम्बुनिधिनेमौ वसुधावलये विधुश्च तस्याकब्बरभूपते राज्ञः आज्ञा शासनमुदीच्यैः उत्तरस्यां भवैधरणीरमणैः पृथिवीपतिभिर्मूर्ध्नि खमस्तके शीर्षेव 'सेस' इति लोकप्रसिद्धा । अधारि ध्रियते स्म । तथा पाश्चात्यभूमिपतयः पश्चिमदिक्संबन्धिनो भीतेरकब्बरसाहिसाध्वसातिरेकाद्यतयस्तापसा बभूवुः संजाताः । 'वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः' इति हैम्याम् । किंभूताः । उज्झितस्त्यक्तः सङ्गस्य गृहरहिणीधनैश्वर्यादिसंगमस्यानुषङ्गस्य रश्चित्तोत्साहो यैः । उत्प्रेक्ष्यते-विरागत इव । यथा वैराग्यात्तापसीभवन्ति । तेऽपि च विरागिणस्त्यक्तसगरमाः स्युः ॥ इत्यकब्बरस्य चतुर्दिगाक्रमणम् ॥ सर्वे जनाः सृजति राजनि यत्र राज्यं . प्रतिपल्लवितचित्तपथा बभूवुः । दुःस्थैरिवापि न परं प्रतिपक्षलक्ष क्षोणीमहेन्द्रमहिलानिवहैः सुखांशः ॥ ६ ॥ यत्र यस्मिन्नकब्बरे राजनि चतुरम्बुधिमेखलाखण्डले राज्यं सकलविपुलामण्डलैश्वर्य सृजति कुर्वति सति सर्वे समस्ता अपि जनाः प्रजालोकाः प्रह्लत्या प्रमोदेन । 'ह्लाद इति योगविगाभात् हवः प्रहृत्तिः' इति प्रक्रियाकौमुद्याम् । कृत्वा पल्लविताः बहलीभूताश्चित्तपथा मनोवृत्तयो येषां तादृशा बभूवुः संजाताः । परमयं विशेषः । अथ वा पर केवलं प्रतिपक्षा अकब्बरसाहेश्वेतोवचनादि निर्विपक्षीभूता मनसैव विरुद्धविधित्सवो वा न तु कायेन कथंचिदपि प्रभविष्णवः तादृग्विधा विरोधिनस्ते च लक्षा लक्षसंख्याका ये क्षोणीमहेन्द्राः पूर्वावस्थापेक्षया क्षितिऋभुक्षाणः महानृपास्तेषां महिला अवरोधवध्वस्तासां निवहैः समूहैः दुःस्थैर्दरिद्रनिर्धनैरिव सुखस्य सातस्य शर्मणो ले.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy